________________ स्तवकः ] कल्पलतावतारिका [23 सर्वेषां पदार्थानाम् / लक्षण्यम्-उत्पत्तिव्ययध्रौव्यात्मकम् / लक्षणम्असाधारणधर्मः / प्रसिद्धम्-प्रख्यातम् / एवञ्चोक्तयुक्त्या चैतन्यवान् अनादिनिधनत्वात् शरीरभिन्नः सिद्धः परलोक्यपि युक्तमार्गानुसारिभिरात्मा विज्ञेयः। सतो घटस्य यथा प्रत्यक्षेण दर्शनं तथा आत्मनोऽपि कथं न प्रत्यक्षेण दर्शन मिति चेत्, "अहमस्मीति प्रत्ययस्यानुभवसिद्धत्वात्तस्यापि निर्बाधं दर्शनात् / न चेदं न प्रत्यक्षमिति वाच्यम् , व्याध्यादिप्रतिसन्धानविरहेऽपि जायमानत्वात् / आत्मत्वविशिष्टस्यायोग्यत्वे साध्याऽप्रसिद्धथाऽनुमानासम्भवाच्च / एतेन "तत्राऽऽत्मा तावत् प्रत्यक्षतो न गृह्यते” इति न्यायभाष्योक्तमप्यपास्तम् / अधिकं तु लतायामालोकनीयम् / तथा चोपाध्याया:(कल्पलता) यथा कथायां प्रविशन् परस्य, नैयायिकः कारयति प्रतीक्षाम् / तथा यथार्थाऽऽगमबद्धबुद्धि-र्दास्यामि नास्यापि किमेष शिक्षाम्॥८॥ अन्वयः-यथा, परस्य, कथायाम् , प्रविशन् , नैयायिकः, प्रतीक्षाम् , कारयति, तथा यथार्थागमबद्धबुद्धिः, एषः, अस्यापि, शिक्षाम् , न, दास्यामि, किम् ? (कल्पलतावतारिका) यथा-येन प्रकारेण / परस्य-अन्यस्य चार्वाकैः सह स्याद्वादिन इत्यर्थः / कथायाम्-चर्चायाम् / प्रविशन्-प्रवेशं लभमानः। नैयायिकः-तार्किकः / प्रतीक्षाम्-उत्तरदानप्रतीक्षाम् , कालक्षेपमिति यावत्, स्याद्वादिनेति शेषः / कारयति-सम्पादयति / तथा-तेन प्रकारेण /