________________ 22 ] शास्त्रवार्तासमुच्चयस्य - [प्रथमः त्वावधारणात् / आलोकं जानतामेव तमः प्रत्यक्षस्वीकारादिष्टापत्ति: कर्तुमशक्या,तेजसोऽप्रतिसन्धानेऽपि तमोऽनुभवस्य प्रत्यक्षसिद्धत्वात्। अधिक कल्पलतायामालोकनीयम् / तथा चोपाध्याया:(कल्पलता) इमां गिरं समाकर्ण्य, सकर्णा जाङ्गलीमिव / उद्वमन्तु सुखं ध्वान्ते-ऽत्राभावत्वभ्रमं विषम् // 6 // तस्मान्न जायते किश्चि-देकान्ताद् न च नश्यति / प्रसिद्धं निखिलार्थानां, चैलक्षण्यं हि लक्षणम् // 7 // अन्वयः-सकर्णाः, जाङ्गुलीमिव, इमाम, गिरम्, समाकर्ण्य, अत्र, ध्वान्ते, अभावत्वभ्रमम् , विषम , सुखम् , उद्वमन्तु, / तस्मात् , किञ्चित् , एकान्तात् , न च, जायते, न च, नश्यति, हि, निखिलानाम् , त्रैलक्षण्यम् , प्रसिद्धम् / (कल्पलतावतारिका.) ___ सकर्णाः -विद्वांसः। जाङ्गलीम् - विषापनयनविद्यामिव / इमाम्-प्रत्यक्षमनुभूयमानाम् / गिरम्-वाणीम् / समाकर्ण्य-श्रुत्वा / अत्र-सभायाम् / ध्वान्ते-अन्धकारे, तद्विषय इत्यर्थः / अभावत्वभ्रमम्-अभावत्वभ्रान्तिरूपम् / विषम्-गरलम् / सुखं-यथा स्यात्तथा / उद्वमन्तु-प्रतिकर्षन्तु / रूपकोपमयोः संसृष्टिरत्रालङ्कारः / तस्मात् - "नाभावो भावतां याति" इत्यस्य सिद्धत्वात् / किञ्चित्-किमपि वस्तु। एकान्ताव- एकान्ततः / न-नहि / जायते-उत्पद्यते / च-पुनः / न-नहि / नश्यति-विनश्यति / हि-यस्मात् / निखिलानाम्