________________ स्तवकः ] कल्पलतावतारिका [21 (कल्पलता) . तेजसोऽतिविनिवृत्तिरूपता, स्वीकृता तमसि या कणाशिना / द्रव्यतां वयममी समीक्षिण-स्तत्र पत्रमवलम्ब्य चक्ष्महे // 5 // अन्वय:-कणाशिना, या, तमसि, तेजसः, अतिविनिवृत्तिरूपता, स्वीकृता, समीक्षिणः, अमी, वयम्, पत्रम्, अवलम्ब्य, तत्र, द्रव्यताम्, चक्ष्महे / (कल्पलतावतारिका) कणाशिना-कणादेन मुनिना। या तमसि-अन्धकारे। तेजसः-वह्नः। अतिविनिवृत्तिरूपता-अत्यन्ताभावस्वरूपता / स्वीकृता-अङ्गीकृता। समीक्षिणः-समीचीनतया पर्यवेक्षकाः / अमी-वयम् आर्हताः / पत्रम् अवलम्ब्य-पत्रावलम्बनं कृत्वा / तत्र- तमसि / द्रव्यताम्-द्रव्यस्वभावताम् / चक्ष्महे-ब्रूमः / अत्र पत्रमवलम्ब्येति विशेषणं वक्तु रनुपमप्रतिभाभिव्यञ्जनात् काव्यस्य ध्वनित्वं प्रयोजति / तत्र पत्रेत्येतदशेच्छेकानुप्रासोऽलङ्कारः / अथ "तमो नीलम्" इति प्रतीत्या तमसो नीलरूपवत्त्वे तस्य पृथिवीत्वापत्तिः नीलत्वावच्छिन्नं प्रति पृथिवीत्वेन हेतुत्वादिति चेन्न, आईतानां स्वभाव विशेषस्यय विशिष्टनीलनियामकत्वात्, कणादमतानुयायिनोऽपि अवयवनीलादिनैवाऽवयविनि नीलाद्युत्पत्तौ पृथिवीवेन तत्समवायिकारणत्वाभावात् / न च तमसो द्रव्यत्वे आलोकनिरपेक्षचक्षुह्यत्वं न स्यात्, द्रव्यचाक्षुषत्वावच्छिन्नं प्रत्यालोकसंयोगत्वेन हेतुत्वात्, इति वाच्यम् / आलोक विनापि घूकादीनां द्रव्यचाक्षुषोदयाद् व्यभिचारात् / किश्चैवं तमसोऽभावत्वे तेजोज्ञानं विना ज्ञान न स्यात्, अभावज्ञाने प्रतियोगिज्ञानस्यान्वयव्यतिरेकाभ्यां हेतु