________________ 20] शास्त्रवार्तासमुच्चयस्य - [प्रथमः अन्वयः-मृतदेहे च सर्वथा, देहधर्मादिभावेन, चैतन्यम् उपलभ्येत, भन्यथा न तद् (तद्-) धर्मादि न / / मृतदेहे च सर्वथा-सर्वप्रकारैः, यथा सजीवशरीरे सर्व प्रकारैः चैतन्योपलब्धिस्तथेति भावः / देहधर्मादिभावेन-देहधर्मत्व-देहकार्य त्वाभ्याम्। चैतन्यमुपलभ्येत-देहत्व-देहरूपादिवत् / अन्यथा-योग्यानुपलम्भे, न-तदभाव एव स्यात् , तथा च तच्चैतन्यं, तद्धर्मादि न-तद्धमभूतं तत्कार्य्यभूतं च न, तद्भावेऽपि (देहभावेऽपि) तदभावात् (चैतन्याभावात् ), घटत्वघटरूपादिवत् / विशेषजिज्ञासुभिः शास्त्रवार्तासमुच्चय आलोकनीयः // . “योऽहं बाल्येऽन्वभूवम् सोऽहं स्मरामि” इत्यादिप्रतीत्या शरीरातिरिक्तस्य सत्तया प्रतीतस्याऽऽत्मनः सिद्धिर्भवति, सतश्चाभावाप्रतीतेः / तथाहि "नासतो विद्यते भावो नाभावो विद्यते सतः / उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः / " इत्यादिनाऽसतो भावस्य सतश्चाभावस्य निषेधप्रतिपादनात् / एवश्वाभावः पारमार्थिकत्वं न प्रतिपद्यते शशशृङ्गे भावत्वेनाऽपरिच्छेदात् एवमेव भावस्तुच्छस्वभावं नाप्नोति / नन्वभावोऽपि भावरूपतामापद्यत एव भावरूपस्य दीपस्याऽऽलोकाभावात्मकान्धकारस्वरूपताप्रतिपत्तेरितिचेन्न, दीपसम्बन्धिनोऽन्धकारपरिणामस्य सर्वथाऽभावरूपत्वाभावात् / भास्वरपरिणामत्यागेऽपि द्रव्यत्वापरित्यागात् / नैयायिकैः स्वीकृतमन्धकारस्य तेजोऽभावरूपत्वमपि न / “तमो नीलम्" इति प्रतीतेः सार्वजनीनत्वेन तमो द्रव्यं रूपवत्त्वात् घटवत्, इत्यनुमानेन तत्र- द्रव्यत्वसाधनात् / तथा चोपाध्याया: