________________ स्तवकः ] कल्पलतावतारिका [ 16 योगात , पार्थिवादिशरीरे जलादिधर्मस्यौपाधिकत्वात् / न चैवं परात्मरूपस्पर्शादीनामिव तत्समवेतज्ञानादीनामपि चाक्षुषस्पार्शनप्रसङ्गः, रूपादिषु जातिविशेषमभ्युपगम्य रूपाऽन्यतद्वत्त्वेन चाक्षुषं प्रति, स्प र्शान्यतद्वत्त्वेन च स्पार्शनं प्रति प्रतिबन्धकत्वकल्पनात् / इत्थमेव रसादीनामचाक्षुषस्पार्शनत्वनिर्वाहात् / न चोक्तस्मरणानुपपत्तिः, पूर्वघटनाशानन्तरं खण्डघटे कारणगुणक्रमेण तद्गुणसंक्रमवत् पूर्वशरीरनाशोत्तरमुत्तरशरीरे पूर्वशरीरगुणसंक्रमात् / न चैवमवयविज्ञानादावयवज्ञानादिहेतुता कल्पने गौरवं, फलमुखत्वात् / फलमुखगौरवस्य दोषानाधायकत्वनियमात् , मास्तु वाऽवयवी,विजातीयसंयोगेनैव तद्न्यथासिद्धेः। तथा च शरीरान्तरोत्पादेऽपि शरीरत्वघटकविजातीयसंयोगविशिष्टाणुवृत्तिसंस्कारात् तादृशस्मरणोपपत्तिः / न च परमात्मनोऽपि योग्यत्वात् स्वात्मन इव प्रत्यक्षत्वप्रसङ्गः, तत्तदात्ममानसे तत्तदात्मवेन हेतुत्वात् / परेषान्तु तत्तदात्मप्रत्यक्षत्वावच्छिन्नं प्रति हेतुत्वे विनिगमनाविरहः / किश्चैव संयोगस्य पृथक् प्रत्यासत्तित्वाऽकल्पने लाघवम् / न च द्वथणुकपरमाणुरूपाद्यप्रत्यक्षत्वाय चक्षुःसंयुक्तमहदुद्भूतरूपवत् समवायत्वादिना प्रत्यासत्तित्वे त्रुटिग्रहार्थं संयोगस्य पृथक्प्रत्यासत्तित्वकल्पनमावश्यकमिति वाच्यम्, द्रव्यतत्समवेतप्रत्यक्षे उद्धृतरूपमहत्वयोः समवायसामानाधिकरण्याभ्यां स्वातन्त्र्येण हेतुत्वे दोषाभावात्, अपि चैवमुद्भूतरूपकार्य्यतावच्छेदक द्रव्यप्रत्यक्षत्वमेव,नत्वात्मेतरत्वमपि तत्र निविशत इति लाघवमित्याहुस्तत्रेदमुक्त सूरिवर्यै:( शास्त्रवार्ता . ) मृतदेहे च चैतन्य-मुपलभ्येत सर्वथा / देहधर्मादिभावेन, तद् न धर्मादि नान्यथा॥६५॥