________________ 18] शाखवार्तासमुच्चयस्य [ प्रथमः वश्यकत्वात्। न चोपादानेनानुभूतस्योपादेयेन स्मरणादुपपत्तिः, छिन्नकरादेरनुपादानत्वेन च्छिन्नकरादेः पूर्वानुभूतास्मरणप्रसंगात् / न च करेण यदनुभूतं तत् खण्डशरीरोपादानापर-किश्चिदवयवेनाप्यनुभूतम इति तद्गतवासनासंक्रमाद् न काचिदनुपपत्तिरिति वाच्यम् , प्रत्यवयवगतविज्ञानबहुत्वेऽनेकपरामर्शप्रसंगात् / यावदवयवेषु व्या. सज्यवृत्तित्वे च चैतन्यस्य यत्किञ्चिदाश्रय-विनाशे बहुत्वसंख्याया इव विनाशप्रसंगात् / पूर्वचैतन्यविरह-उत्तरचैतन्यानुत्पादात्, परमाणुगतत्वे तद्गतरूपादिवच्चैतन्याऽतीन्द्रियत्वप्रसंगाच्च, रूपस्कन्धवद् विज्ञानस्कन्धैक्योपगमाद् न दोष इति चेत्- न, तथापि “योऽहमनुभवामि”, “सोऽहं स्मरामि'' इत्यभेदाऽवमर्शानुपपत्तेः / सादृश्येन वैसादृश्यतिरस्कारात् तथाऽवमर्शो भवेदेवश्च क्षणभंगे स्मृतिकुर्वद्रूपपरमाणुपुञ्जानामेव स्मृतिनियामकत्वात् न कोऽपि दोष इति चेत् न, स्थैर्यप्रत्यभिज्ञाप्रामाण्ययोरुपपादयिष्यमाणत्वात्। अत्र नव्यनास्तिका:-अवच्छेदकतया ज्ञानादिकं प्रति तादा-- त्म्येन कल्प्यकारणताकस्य शरीरस्यैव समवायेन ज्ञानादिकं प्रति हेतुत्वकल्पनमुचितम् न चैवमात्मत्वं जातिर्न सिद्धयेत् पृथिवीत्वादिना साङ्कर्यात् “व्यक्तरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः। रूपहानिरसम्बन्धो जातिवाधकसंग्रहः // " इत्यभियुक्तोक्त्या परस्परसमानाधिकरणात्यन्ता. भावप्रतियोगित्वरूपस्य साङ्कर्यस्य भूतत्वमूर्तत्वयोरिव प्रकृतेऽपि पृथिवीत्वादिना साङ्कादात्मत्वस्य जातित्वबाधात् इति वाच्यम्, उपाधिसाङ्कर्य्यस्येव जातिसाङ्कर्य्यस्याप्यदोषात् / न च तथापि पृथिव्यादिभूतचतुष्कप्रकृतित्वेन शरीरमतिरिच्यते, स्वाश्रयसमवेतत्वसम्बन्धेन गन्धाद्यभावस्य गन्धादिकप्रतिबन्धकत्वेन तस्य भूतचतुष्कप्रकृतित्वा