________________ स्तवकः ] . कल्पलतावतारिका [17 न चैकत्र भेदाभेदोभयाविरोधसम्पादनाथ कालोऽवश्यमाश्रयणीयः, कथमन्यथा पक्वतादशायां घटादौ "अयं न श्यामः” इत्यादि धी: ? कालस्वीकारे च कालभेदेनैकत्रोभयसमावेशः सम्भवतीति / "इदानी घटः” इत्यादि-प्रतीतो सम्बन्धघटकतया परत्वादिलिङ्गेन वा कालसिद्धिस्तथा च लोकसिद्धत्वात् काल एव स्वीक्रियताम् , लोकासिद्धत्वादात्मस्वीकारो वृथैवेति वाच्यम् / जातिस्मरणस्य भवान्तरानुभूतार्थविषयस्य मतिज्ञानविशेषस्य लोकेन संश्रयादात्मनोऽपि लोकसिद्धत्वात् / तथाहि-न हि भवान्तरानुभूतार्थस्मरणमन्वय्यात्मद्रव्यं विनोपपद्यते, शरीरस्य भवान्तराननुयायित्वात् / न चैवं भवान्तरादागमनाऽविशेषेऽपि केषाश्चिदेव जातिस्मरणं न सर्वेषामिति विशेष: कथमिति वाच्यम् , सर्वेषामभिमतव्यतिरिक्तानां जातिस्मरणाभावस्य नानाविधकर्मविपाकतः सिद्धत्वात् / तथा चोक्तं हरिभद्रसूरिवय्य:"लोकेऽपि नैकतः स्थानादागतानां तथेक्ष्यते / अविशेषेण सर्वेषामनुभूतार्थसंस्मृतिः" // इति // .. . एवञ्च लोकसिद्धत्वाऽविशेषेऽपि सकलप्रयोजनहेतोरनन्य. साधारणगुणस्याऽऽत्मनोऽनङ्गीकारस्तत्तद्वस्तु परिणामान्यथासिद्धस्य कालस्य चाङ्गोकार इति पुरः परिस्फुरतोर्मणिपाषाणयोर्मध्ये मणित्याग पाषाणग्रहणवदतिशोचनीयं, विलसितं देवानांप्रियस्य लोकायतिकस्येति / उपाध्यायास्तु-- . वस्तुत: स्मरणान्यथाऽनुपपत्त्याऽपि लोकसिद्ध एवाऽऽस्मा, शरीरस्य चैतन्ये बाल्येऽनुभूतस्य तारुण्येऽस्मरणप्रसंगात्, चैत्रेणानुभतस्येव मैत्रेण, बालयुवशरीरयोर्भेदात् , परिणामभेदे द्रव्यभेदा