________________ शास्त्रवार्तासमुच्चयस्य [ प्रथमः वह्नयादौ न प्रवृत्तिरिति चेत् वयादिसम्भावनयैव तत्र प्रवृत्त्युपपत्तेः। आप्तवाक्यात्मकशब्दस्यापि प्रामण्यं न स्वीकरणीयम् , परस्परविरुद्धार्थाभिधायकानामागमानां विनिगन्तुमशक्यत्वात् , शब्दस्य बासनामात्रप्रभवत्वात् , तन्मात्रजनकत्वाच्च / अन्यथाऽसदर्थप्रतिपादकशब्दप्रयोगो दुर्घट: स्यात् , तर्हि चार्वाकस्याऽऽगमो निष्प्रयोजनः स्यादिति चेत्-न, परं प्रति दूषणपर्यनुयोगात्, परस्य तदनुत्तरमात्रेण निग्रहे च तत्सार्थक्यात् / अत एव "सर्वत्र पर्यनुयोगपराणि सूत्राणि बृहस्पतेः" इत्यभिहितम् / ततोऽदृष्टे वस्तुनि मानाभावान्नास्त्यात्मेति लोकायतिकप्रवादः। आत्मवादिनां मतमुपन्यस्यति 'अचेतनानीति'-.. ( शास्त्रवार्ता) अचेतनानि भूतानि, न तद्धर्मो न तत्फलम् / चेतनास्ति च यस्येयं, स एवात्मेति चापरे // 31 // अन्वयः-अपरे च भूतानि अचेतनानि, चेतना तद्धर्मः न, तत्फलं न, इयं च यस्य स एव आत्मा इति ( मन्यन्ते)। . अपरे च-आत्मवादिन: पुन:, भूतानि-पृथिव्यादीनि, अचेतनानि चैतन्याभाववत्त्वेन प्रमितानि, अतश्चेतना-तों न, भूतस्वभावभूता न, अत एव च तत्फलं न-भूतोपादान कारणजन्या न, मृदो घटस्येव तत्स्वभावस्यैव तदुपादेयत्वात् अस्ति च चेतना, प्रति प्राण्यनुभवसिद्धत्वात्, अतो यस्येयं चेतना स्वभावभूता, फलभूता च, स एवाऽऽत्मा, परिशेषात्, / इति-मन्यन्ते इति शेषः /