________________ स्तवकः] कल्पलतावतारिका [ 15 तत्रेदं विभावनीयम्-अहिंसादिना मूलगुणघातिकोधादिनिवृ. त्तावपि संज्वलनादिरूपकोधनिवृत्तिः क्षमाद्युत्तरगुणसाम्राज्यादेव।।।। // एतन्मूलश्लोकपञ्चकं प्रसङ्गादावश्यकत्वाच्चोदृङ्कितमवसेयम् / / (शास्ववाती अथ चार्वाकपूर्वपक्षः पृथिव्यादिमहाभूत-मात्रकार्यमिदं जगत् / न चात्मा,दृष्टसद्भाव, मन्यन्ते भूतवादिनः॥३०॥ अन्वयः- इदं जगत् पृथिव्यादि-महाभूतमात्रकायं च आत्मा न भूतवादिनः दृष्टसद्भावं मन्यन्ते / इदं प्रत्यक्षोपलभ्यमानं जगत् चराचरं विश्वम् पृथिव्यादिमहाभूतमात्रकाय्य॑म् पृथिवी आदिर्येषां तानि पृथिव्यादीनि पृथिवीज लतेजोवायुलक्षणानि यानि चत्वारि महाभूतानि, पृथिव्या दिमहाभूतानि, तेषामेव तन्मात्रम् तस्य कार्यान्तथा, एवकारार्थकमात्रपदेनाऽऽकाशादिव्यवच्छेदः / ननु जगदन्तर्गतस्याऽऽत्मनो न पृथिव्यादिमहाभूतमात्र कार्यत्वम्, तथा च यस्य कस्यचिदेकस्यापि तन्मात्र कार्य त्वाभावे प्रतिज्ञाभङ्ग इति चेत् सत्यम् -"चैतन्यविशिष्टः कायः पुरुषः" इतिवचनात् शरीर!तिरिक्तस्याहं प्रत्ययालम्बनस्यासत्त्वाभ्युपगमात्, भूतवादिभिः प्रत्यक्षवस्तुन एव पारमार्थिकत्वस्य स्वीकारात्, मानाभावात् , "अदृष्टस्य" तत्त्वानभ्युपगमाच्च / प्रत्यक्षातिरिक्तस्य वस्तुन: पारमार्थिकत्वाभ्युपगमेऽनुमानमस्ति प्रमाणमिति चेत् तैरनुमानस्य प्रामाण्यानङ्गीकारात्, व्यभिचारिसाधारण्येन तस्य (अनुमानस्य ) अप्रमाणत्वात्, पर्वतादौ धूमादिदर्शनेन