________________ 14] शास्त्रवार्तासमुच्चयस्य [प्रथमः ___धर्मस्य हेतून व्यतिरेकेण व्यनक्ति( शाखवार्ता ) विपरीतास्तु धर्मस्य, एत एवोदिता बुधैः / एतेषु सततं यत्नः, सम्यक् कार्यः सुखैषिणा // 5 // अन्वयः-तु विपरीताः एते एव बुधैः धर्मस्य ( हेतवः ) उदिताः, सततं सुखैषिणा एतेषु सम्यक् यत्नः कार्य्यः / तु-विशेषणे। विपरीता:-अहिंसा सत्या.ऽन्तेय-ब्रह्मा-ऽपरिग्रह-सम्यग्दर्शन-क्षान्ति-मार्दवा-ऽऽर्जवाऽनीहारूपा:, एत एव बुधैरहद्वचनानुसारिगीतार्थैः, धर्मस्य गुणा: शुभाशयलक्षणस्य हेतव उदिताः प्रतिपादिताः, अत एतेषु धर्मकारणेषु सतत-निरन्तर सुखैपिणा- कल्याणेच्छुना सम्यक्-विधिना यत्नः कार्यः सुखोपाये प्रवृत्तेरेव सुखोत्पत्तेः / स्वभावत: सुखदुःखेच्छाद्वेषवतामपि प्राणिनां सुखोपाये धर्मेऽनिच्छा दुःखोपाये चाधर्म एवेच्छा खलु मोहमहागजनिदेशविलसितम् / तदुक्तम् धर्मस्य फलमिच्छन्ति, धर्म नेच्छन्ति मानवाः / फलं नेच्छन्ति पापस्य, पापं कुर्वन्ति सादगः // उक्तहेतेषु प्रवृत्त्या च, अहिंसादिनाऽविरतेः, सम्यग्दर्शनेन च मिथ्यात्वस्य, क्षमादिना च क्रोधादिना निवृत्तेस्तन्मूलकदुःखविरहात् अप्रतिहत: सुखावकाशः / “अहिंसया क्षमया क्रोधस्य, ब्रह्मचर्येण वस्तुविचारेण कामस्य, अस्तेयाऽपरिग्रहरूपेण सन्तोषेण लोभस्य, सत्येन यथार्थज्ञानरूपेण विवेकेन मोहस्य, तन्मूलानां च सर्वेषां निवृत्तिः / " इति तु पातञ्जलमतानुसारिणः / .