________________ स्तवकः ] कल्पलतावतारिका [13 पापात्--अधर्मात् , दुःख--भवति। धर्मात् सुखं-भवति / इयं सर्वशास्त्रेषु,सं-समीचीना-अविप्रतिपत्तिविषया, स्थितिः-मर्यादा / अतो-दुःखहेतुतया, पापमशुभकर्महेतु, न कर्तव्यम् , सुखहेतुतया संचितोऽङ्गवैकल्यादिविरहितो धर्मः धर्मसञ्चयः कर्तव्यः // 3 // शुभाऽशुभहेतूनाह( शास्त्रवार्ता) हिंसाऽनृतादयः पञ्च, तत्त्वाश्रद्धानमेव च / क्रोधादयश्च चत्वार, इति पापस्य हेतवः॥४॥ अन्वयः-हिंसानृत्तादयः पञ्च, तत्त्वाश्रद्धानम् एव च, चत्वारः क्रोधादयश्च, इति पापस्य हेतवः / . . हिंसानृतादयः पञ्च- हिंसाऽनृताऽदत्तादानाऽब्रह्मपरिग्रहपञ्चकम् / तत्र प्रमादयोगेन प्राणव्यपरोपणं हिंसा / धर्मविरुद्धं वचनमनृतम् / धर्मविरोधेन स्वामिजीवाद्यननुज्ञातपरकीयद्रव्यग्रहणमदत्तादानम् / स्त्रीपुंसव्यतिकर (संसर्ग ) लक्षणमब्रह्म / सर्वभावेषु मू लक्षणः परिग्रहः / "हिंसादयः” इत्येतावतैव आदिशब्दानृत. ग्रहणसम्भवात् पुनरनृतग्रहणं प्राधान्यख्यापनार्थमवसेयम् / कथिताः पश्चाऽविरतिरूपा उच्यन्ते। तत्त्वस्य यथास्थितवस्तुनोऽश्रद्धानं यस्मादिति बहुव्रीह्याश्रयणात् तत्त्वाऽश्रद्धानं मिथ्यात्वम् / एवकार प्रसि. द्धयर्थः। च-पुनरर्थः / क्रोधमानमायालोभात्मकाश्चत्वारः क्रोधादयश्च / इति-एतावन्तः, पापस्याशुभकर्मणो, हेतवः-कारणानि कथितानि // 4 //