________________ शाखवार्तासमुच्चयस्य [ प्रथमः निवृत्त्यर्थमन्नपानादिप्रवृत्तिवदुःख-निवृत्त्यर्थमेव सिद्धौ प्रेक्षावतां प्रवृत्ति: सेत्स्यतीति प्रेक्षावत्प्रवृत्तेरन्यथोपपत्तौ न तदनुपपत्तिस्तत्र मानमिति वाच्यम्, अन्नपानादावपि सुखार्थमेव प्रवृत्तेः। अन्यथाऽस्वादुपरित्यागस्वादूपादानानुपपत्तेः / पर्यालोचनया वस्तुतः सर्वत्र सुखार्थमेव प्रवृत्तिरिति / न च बहुदुःखप्रस्तानां मरणादावपि प्रवृत्तिदर्शनात् कथं सुखार्थमेव प्रवृत्तिरिति वाच्यम् / विवेकिप्रवृत्तेरेवाऽत्राधिकृतत्वात् / अत: साधूच्यते दुःखाभावोऽपि. नांवेद्यः, पुरुषार्थतयेष्यते / नहि मूर्छाद्यवस्थार्थ, प्रवृत्तो दृश्यते सुधीः // इति "दुःखं मे माभूत्" इत्युद्दिश्य प्रवृत्तेदु:खाभाव एव पुरुषार्थः / तज्ज्ञान त्वन्यथासिद्धमिति चेत्-सत्यम्; अवेद्यस्य तस्य (क्षुदादेः) ज्ञानादिहानिरूपाऽनिष्टानुविद्धतया प्रवृत्त्यनिर्वाहकत्वात् / अतएव- सुखमात्यन्तिकं यत्र, बुद्धिग्राह्यमतीन्द्रियम् / तं वै मोक्षं विजानीयाद्, दुष्प्रापमकृतात्मभिः / / इत्यादि वचनमप्युपपद्यते, इति संक्षेपः / / वक्तव्ये शास्त्रबार्तासमुच्चये पूर्व सर्वविप्रतिपत्त्यविषयां शास्त्रवार्तामाह( शाखवार्ता) दुःखं पापात् सुखं धर्मात्, सर्वशास्त्रेषु संस्थितिः। न कर्तव्यमतः पापं, कर्तव्यो धर्मसञ्चयः // 3 // अन्वयः-पापात् दुःखं, धर्मात् सुखं (इयं) संस्थितिः सर्वशास्त्रेषु, अतः पापं न कर्तव्यं, धर्मसञ्चयः कर्तव्यः /