________________ स्तवकः ] . कल्पलतावतारिका [11 अथ "स्वर्गे सुखम्" इत्यत्र कस्यचनापि काचन विप्रतिपत्तिर्नास्ति, परन्तु सिद्धौ सुखे किमपि प्रमाणं नास्ति, सामानाधिकरण्यसम्बन्धेन समवायसम्बन्धावच्छिन्नसुखत्वावच्छिन्नकार्य्यतानिरूपित. कारणताया एव धर्मे स्वीकरणात, न च विलक्षणादृष्टानां विलक्षणसुखहेतुत्वात्, अदृष्टरूपव्यापारसम्बन्धेन तद्धेतुत्वस्वीकाराद्वा सामान्यत: सुखत्वावच्छेदेन हेतुत्वे प्रमाणाभाव इति वाच्यम् तथापि विशेषसामग्रीविरहेण मोक्षसुखानुत्पत्तेः / न च "नित्यं विज्ञानमानन्द ब्रह्म' इति श्रुतिरेवात्र मानम् / नित्यसुखे सिद्धे ब्रह्माभेदबोधनम् , ब्रह्माभेदबोधने च नित्यसुखसिद्धिरिति परस्पराश्रयो नाशङ्कनीयः / स्वर्गत्वमुपलक्षणीकृत्य स्वर्गविशेषे यागकारणताबोधवत् सुखत्वमुपलक्षणीकृत्य सुखविशेषे ब्रह्माभेदोपपत्तेः / "अानन्दमित्यत्र नपुंसकत्वं छान्दसत्वात् समाधेयम् / "आनन्द ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम्" इति भेदपरषष्ठ्या अनुपपत्तिरपि नाशङ्कथा-"राहो: शिरः" इतिवदभेदेऽपि षष्ठी दशनात् इति वाच्यम् / आत्मनोऽनुभूयमानत्वेन नित्यसुखस्याप्यनुभवप्रसङ्गात् / सुखमात्रस्य स्वगोचरसाक्षात्कारजनकत्वनियमात् / नचात्माऽभिन्नतया सुखमनुभूयत एव, सुखत्वन्तु तत्र नानुभूयते, देहात्माऽभेदभ्रमवासनादोषात्, प्रात्यन्तिकदुःखोच्छेदरूपव्यञ्जकाभा. वाद् वेति वाच्यम् / आत्मसुखयोरभेदे सुखत्वस्याऽऽत्मत्वतुल्यव्यक्तिकत्वेनाऽऽत्मत्वान्यजातित्वासिद्धेरिति चेदत्रोपाध्यायाः॥ ___प्रेक्षावत्प्रवृत्यन्यथानुपपत्तिरेव सिद्धिसुखे मानम् / यदि सिद्धिसुखं न स्यात्तदा तदुद्दिश्य प्रेक्षावतां प्रवृत्तिरेव न भवेत्, भवति च तत्र प्रवृत्तिरतः सिद्धिसुखमस्तीति भावः / न च क्षुदादिदुःख