________________ 10] शास्त्रवार्तासमुच्चयस्य [ प्रथमः व्यभिचारः, यत्र च केवलेन प्रायश्चित्तादिना विघ्नध्वंसस्तत्र मङ्गलात्मककारणविरहेऽपि कार्यजननादव्यतिरेकव्यभिचारस्तस्य च कारणताग्रहविघटकत्वं सर्वसम्मतमतः मङ्गलाव्यवहितोत्तरजायमान विघ्नध्वंसत्वावच्छिन्नं प्रति मङ्गलं कारणम् , एवं प्रायश्चित्ताद्यव्यवहितोत्तरविघ्नध्वंसत्वावच्छिन्नं प्रति प्रायश्चित्तादिः कारणमित्येवं कार्यकारणभावेऽव्यवहितोत्तरत्वनिवेशे परेषां मते महद्गौरवमापत. तोत्यवसेयम् // 1 // ( शास्त्रवार्ता० ) . यं श्रुत्वा सर्वशात्रेषु, प्रायस्तत्त्वविनिश्चयः / जायते द्वेषशमनः स्वर्गसिद्धिसुखावहः // 2 // अन्वयः-यं श्रुत्वा सर्वशास्त्रेषु प्रायः तत्त्वविनिश्चयः द्वेषशमनः स्वर्गसिद्धिसुखावह: जायते // 2 // , यं-शास्त्रवार्तासमुच्चय, श्रुत्वा-तात्पर्यत: परिज्ञाय, सर्वशास्त्रेषु- सकलदर्शनेषु, प्रायो-- बाहुल्येन, तत्त्वविनिश्चयः- प्रमाण्याप्रामाण्यविवेको जायते / ___ नन्वेवमितरदर्शनेष्वप्रामाण्यज्ञानात् तत्रानिष्टसाधनत्वज्ञाने द्वेषोदयात् संसारानुषन्ध्येव बहुशास्त्रज्ञानमापतितम्, इत्यत आह द्वेषशमन इति / स हि तत्त्वविनिश्चयः स्वर्गसिद्धिसुखावहो द्वेषशमनो जायते / अयमाशयः-प्रामाण्यनिश्चयस्योपादेयेऽर्थे निष्कम्पप्रवृत्तिजनकतयैवोपयोगोऽनुपादेयेऽर्थेऽप्रामाण्यनिश्चयस्तु तदर्थप्रवृत्तिप्रतिबन्धकतयैव, द्वेषस्तु माध्यस्थ्येन प्रतिबन्धादेव नोदेतुमर्हति तस्मान्न कोऽपि दोषः प्रत्युत दानसंयमादौ शुद्धप्रवृत्या सुखावहत्वमेव तस्येति /