________________ स्तवकः ] कल्पलतावतारिका च प्रायश्चित्तेन नाशिता, पञ्च च मङ्गलानि तत्र समाप्त्यभावप्रसङ्गात् / न च प्रायश्चित्ताधनाश्यस्वानधिकसंख्यविघ्नस्थली.. यत्वं समाप्तौ निवेश्यते तथा च नोक्त दोष इति वाच्यम् / बलवतो विघ्नस्य बहुभिरपि मङ्गलैरनाशात् , बलवता मङ्गलेन बहूनामपि विघ्नानां नाशाच्च / तथा च मङ्गलं व्यर्थमेव, न चाऽऽवश्यकत्वाद् विघ्नध्वंस एव मङ्गलफलमस्तु समाप्तिस्तु कारीरीतोऽवग्रह निवृत्ती वृष्टिरिव प्रतिबन्धकनिवृत्तौ स्वकारणबुद्धिप्रतिभादिकारणकलापादेव भविष्यतीति वाच्यम्, मङ्गलं विनापि विघ्नध्वंस प्रायश्चित्तादितो भावेन व्यभिचारात् "विघ्नो मा भूत्" इति कामनया प्रवृत्तेर्विघ्नप्रागभाव एव फल मित्यादि नो मनोरमं वचनम् प्रागभावस्यासाध्य. त्वात् , स्वत आगन्तुकस्य समयविशेषस्य सम्बन्धरूपस्य तत्परिपालनस्यापि मङ्गलासाध्यत्वात् , तस्मान् मङ्गलं निष्फलमिति चेत् अत्रोपाध्यायाः- विघ्नध्वंस एव मङ्गलं हेतु: / अर्थात् विघ्नध्वंसं प्रत्येव मङ्गलस्य कारणता स्वीका- / न च मङ्गलं विनापि विघ्नध्वंसस्य प्रायश्चित्तादितो भावेन पूर्वोक्तव्यभिचार इति वाच्यम् , प्रायश्चित्तादीनामपि मङ्गलत्वात् , प्रारिप्सितप्रतिबन्धक दुरितनिवृत्त्यसाधारणकारणं मङ्गलमिति तल्लक्षणं परैरुच्यते, तत्र चास्माभिर्लाघवात् "प्रारिप्सितप्रतिबन्धक" इति दुरितविशेषणं त्यज्यते, "स्वाध्यायादेरपि मङ्गलत्वाविरोधात्" इत्याकारग्रन्थोऽत्र प्रमाणम् / तादृशविशेषणत्यागे लाघवश्च कार्यकारणभावेऽव्यवहितो. त्तरत्वनिवेशाभावमूलकमवगमनीयम्, अन्यथा प्रायश्चित्तादीनां मङ्गलत्वास्वीकारे यत्र केवलं मङ्गलेन विघ्नध्वंसस्तन प्रायश्चित्तादि / कारणविरहेऽपि कार्यसत्त्वात् “तदभावे तदभावः” इति व्यतिरेकस्य