________________ 8] शास्त्रवार्तासमुच्चयस्य प्रथमः शास्त्रीय ज्ञान विना केवलं पशुपक्ष्यादितुल्यानां मनुजानामितियावत् / इदमेव "नराणामित्येतदनुल्लिख्य सत्त्वानामिति लेखे बीजमवगन्तव्यम् / हितकाम्यया-शुभकामनया / शास्त्रवार्तासमुच्चयम्पूर्वदर्शितस्वरूपं ग्रन्थात्मक वाक्यम् / वक्ष्यामि-अभिधास्ये / / अथैतावता ( “निर्विघ्नपरिसमाप्तये मङ्गलमाचरन्" इत्येतावता ) निर्विघ्नग्रन्थपरिसमाप्ति प्रति मङ्गलस्य कारणत्वमुक्त भवति परं तन्न सङ्गच्छते समाप्ति प्रति मङ्गलस्यान्वयव्यतिरेकाभ्यां व्यभिचारात् तत्सत्त्वे तत्सत्त्वम् तदभावे तदभावः” इत्यन्वयव्यतिरेकस्वरूपम् तयोरेव कार्यकारणभावग्राहकत्वम् दण्डादिसत्त्वे घटसत्त्वस्य तदभावे तदभावस्य दर्शनात् घटदण्डाद्यो: कार्यकारणभावः सम्पद्यते, घटे कार्य्यता दण्डादौ च कारणता स्वीक्रियते, मङ्गलसमा प्त्योः परस्परमन्वयव्येतिरेको न स्तो यतो मङ्गलसत्त्वेऽपि प्रन्थ-- समाप्त्यभावः किरणावल्यादौ नास्तिकग्रन्थे च मङ्गलविरहेऽपि समाप्तिदृश्यते, अतो हेतोरन्वयव्यतिरेकव्यभिचारान्मङ्गलं न समाप्तिमात्रे कारणम् // न च स्व (मङ्गल ) समसंख्यकविघ्नस्थलीयसमाप्तित्वावच्छिन्न प्रति स्वस्य कारणतोच्यते, कादम्ब-दौ मङ्गलाधिकविघ्नसत्त्वान्न समाप्तिः किरणावल्यादौ च जन्मान्तरीयमङ्गलादेव समाप्ति: स्वीकरिष्यते तथा च नान्वयव्यतिरेकाभ्यां व्यभिचार इति वाच्यम् / एवंविधकार्यकारणभावस्वीकारे समसंख्यकत्वाभावात् विघ्नाधिकसंख्यमङ्गलस्थलेऽपि समाप्त्यभावप्रसङ्गात् / न च स्वानधिक-न्यूनसंख्यविघ्नस्थलीयसमाप्ति प्रति मङ्गलस्य कारणता स्वीकारान्न तादृशस्थले समाप्तिविरहप्रसङ्ग, इति वाच्यम् / यत्र दश विघ्नाः पश्च