________________ स्तवकः ] कल्पलतावतारिका सामर्थ्य विरहेऽपि / मेघेन-जलदेन / कृषिस्थिति:-गार्हस्थ्यपरि. स्थितिः / इंव - यथा / अर्हन्मतानुरागेण- जिनसिद्धान्तप्रेम्णा / उचित:-युक्तः / मम-मल्लक्षणस्य जनस्य / एषः-सिद्धान्तनिरूपणात्मकः / श्रमः-प्रयास: / शुभायतिः-समीचीनोत्तरकालः / "आयतिस्तूत्तरः कालः" 2 / 76 / / इत्यभिधानचिन्तामणिः / भावी-भविष्यतीत्याशास इति भावः। मेघेन कृषिस्थितियथा शुभोत्तरकाला भवति तथा ममापि श्रमो जिनसिद्धान्तानुरागेण सफलो भविष्यतीति हृदयम् , उपमालङ्कारः / “हृद्यं साधर्म्यमुपमा” इति काव्यानुशासने तल्लक्षणम् ! "श्रमो ममो” इत्येतदंशावच्छेनानुप्रासः शब्दालङ्कारश्च / / इह खलु समस्त जगदज्ञानान्धकारनिरस्ताऽऽलोकमवलोकमानस्तदुपचिकोषुभंगवान् हरिभद्रसूरिः शास्त्रवार्तासमुच्चयं नाम प्रकरणमारब्धुकामस्तदारम्भे प्रारिप्सितग्रन्थस्य निर्विघ्नपरिसमाप्तये मङ्गलमाचरम् प्रेक्षावत्प्रवृत्तयेऽभिधेयमाह, प्रणम्येत्यादिना(शास्त्रवार्तासमुच्चयः) . प्रणम्य परमात्मानं, वक्ष्यामि हितकाम्यया / सत्वानामल्पबुद्धीनां, शास्त्रवातासमुच्चयम् // 1 // अन्वयः-परमात्मानं प्रणम्य अल्पबुद्धीनां सत्त्वानां हितकाम्यया शास्त्रवार्तासमुच्चयं वक्ष्यामि || परमात्मानम्-परमेष्ठिनम् / प्रणम्य-प्रकर्षण नत्वा / अन्पबुद्धीनाम्-सुकुमारमतीनाम् / यत्किश्चिद्विषयकज्ञानशालित्वेऽपि शास्त्रीयसिद्धांतज्ञानरहितानामिति यावत् / सत्त्वानाम्-जीवानाम्