________________ शास्त्रवार्तासमुच्चयस्य [ प्रथमः (कल्पलता) हारिभद्रं वचः क्वेदं, बहुतर्कपचेलिमम् / . क चाहं शास्त्रलेशज्ञस्तादृक्तन्त्राविशारदः // 3 // - अन्वयः-इदं, हारिभद्रं, बहुतर्कपचेलिमं, वचः, क्व ? शास्त्रलेशशः, ताकतन्त्राविशारदः, अहं, च, क्व 1 . (कल्पलतावतारिका) इदम्-शास्त्रवार्तासंग्राहकमेतत् प्रत्यक्षदृश्यमानम् / हारिभद्रम्स्वनामधन्यस्य सूरिचक्रचक्रवर्तिन इदं हारिभद्रम् / तदुदीरितमित्यर्थः / बहुतर्कपचेलिमम्-नानाविधयुक्तिपरिपूर्णम् / तर्कनिवहपरिपक्कमिति यावत् / वचः-श्लोकात्मकं वचनं वाक्यं वा / क-कुत्र, अतिगहनमित्यर्थः। शास्त्रलेशज्ञः-शास्त्राणां सिद्धान्तानां लेशो लवः शास्त्रलेशस्तं जानातीति तथा अल्पविषयज्ञातेति यावत् / अत एव तादृक्तन्त्राविशारदः-तादृशसिद्धान्तावबोधनापटुः। अहम्-मल्लक्षणो जनः। च-पुनः। क-कुत्र / मादृशः सर्वर्था तदीय सिद्धान्तप-लोचनाक्षम इति भावः / तथापि तत्र प्रवृत्तिनिदानमहन्मतानुरागमाह-श्रमो ममेत्यादिना(कल्पलता) श्रमो ममोचितो भावी, तथाप्येष शुभायतिः / अर्हन्मतानुरागेण, मेघेनेव कृषिस्थितिः // 3 // अन्वयः-तथापि, मेघेन, कृषिस्थितिः, इव, महन्मतानुरागेण, उचितः, .. मम, एषः, श्रमः, शुभायतिः, भावी // (कल्पलतावतारिका) तथापि-पूर्वकथितप्रकारेण तदीयसिद्धान्तपOलोचन.