________________ स्तवक्रः ] कल्पलतावतारिका [5 विक्रीडितम् / तल्लक्षणन्तु 'सूर्याश्वैर्मसजास्तत: सगुरवः, शार्दूलविक्रीड़ित मिति / अलङ्कारस्त्वनुप्रासः स्पष्ट: / श्रीवर्धमानमहावीरस्वामिविषयककविनिष्ठरत्याख्यो भावश्चाभिव्यज्यते इति ध्वनिकाव्यमिदम् / अनुप्रासाधिक्येऽपि कविशक्तिप्रौढिवशात् प्रसादगुणा-- भिव्यञ्जनद्वारेण तस्याप्यत्र भावध्वनिपोषकतैवावसेया // 1 // विद्याधिष्ठातृतया शारदायास्तत्प्रदत्वेन गुरूणाञ्चापि नमस्कारो ग्रन्थकर्तुर्नानुचित इत्याशयेनाह(कल्पलता प्रणम्य शारदां देवीं, गुरूनपि गुणैर्गुरून् / विवृणोमि यथाशक्ति, शास्त्रवार्तासमुच्चयम् // 2 // अन्वयः-शारदाम् , देवीम् , गुणैः, गुरून् , गुरून् अपि, प्रणम्य, यथाशक्ति, शास्त्रवार्ता समुच्चयम् , विवृणोमि // 2 // (कल्पलतावतारिका) शारदाम् - सरस्वतीम् / देवीम्-देवताम् / गुणैः--ज्ञानादिभिः, कृत्वेतिशेषः, गुरुन्-श्रेष्ठान , गुरुन्-धर्मोपदेशकान विद्यादातून वा, अपि-समुच्चये "अपि सम्भावनाप्रश्नशङ्कागाँसमुच्चये” इति मेदिनी। प्रणम्य-प्रकर्षेण नत्वा / यथाशक्ति-स्वशक्त्यनुसारेण / शास्त्रवार्तासमुच्चयम्-शास्त्राणां बौद्धवैशेषिकादिदर्शनानां या वार्ताः सिद्धान्तप्रवादास्तासां समञ्चय एकत्र सङ्कलनम् शास्त्रवार्तासमुच्चयः, "कृदभिहितो भावो द्रव्यवत्प्रकाशते” इति न्यायाश्रयणात् समुच्चिताः शास्त्रवार्ता इत्यर्थः, तन्तथा / विवृणोमि-व्याख्यानादिना प्रकाशयामि / ___ स्वकीयमौद्धत्यं परिहरति कल्पलताकारः हारिभद्रमित्यादिना