________________ उपसंहारः] कल्पलतावतारिका [ 287 ज्ञानम् / उदपादि-समजनि / समुत्पन्न मिति यावन् / यस्य-बुद्धिविषयीभूतस्य देवाधिदेवग्य। वाचाम्-देशनावचनानाम् / कौशलम्कलामाहात्म्यमिति यावत् / सर्वप्राणिस्वभाषापरिणतिसुभगम-सर्व. प्राणिनां निखिजजीवानाम् स्वभाषायाम् परिणत्या परिणामेन सुभगं ललितन्तथा / समस्तजीवसम्बन्धिस्वस्वभाषापरिणमनललितम् / अभवदिति शेषः / तथाचोक्तं वीतरागस्तवे भगवता हेमचन्द्राचार्येण यद्योजनप्रमाणेऽपि, धर्म देशनसमनि / सम्मान्ति कोटिशस्तिर्यनृदेवाः सपरिच्छदाः // 1 // तेषामेव स्वस्वभाषा-परिणाममनोहरम् / अप्येकरूपं वचनं, यत्ते धर्मावबोधकृत् // 2 // स्वभाषयेव यदीयया वाचा देवतिर्यमनुष्या यथार्थं धर्मस्वरूपमवबुध्यन्ते इति भावः / एतेन भगवद्वाचां पञ्चत्रिंशद्वाणीगुणातिशयसाहित्य सूचितं भवति / तथाचोक्तमभिधानचिन्तामणी "संस्कारवत्त्वमौदात्त्य-मुपचारपरीतता / मेघगम्भीरघोषत्वं, प्रतिनादविधायिता // 1 // 65 // दक्षिणत्वमुपनीत-रागत्वं च महार्थता / अव्याहतत्वं शिष्टत्वं, संशयानामसम्भवः // 1 // 66 . निराकृतान्योत्तरत्वं, हृदयङ्गमताऽपि च / मिथः साक्रांचता प्रस्ता वौचित्यं तत्त्वनिष्ठता // 1 // 67 अप्रकोण प्रसृतत्वम-स्वश्लाघान्यनिन्दता / आभिजात्यमितिस्निग्ध-मधुरत्वं प्रशस्यता // 1 // 68 अमर्मवेधितोदार्य धमार्थप्रतिबद्धता / कारकाद्यविपर्यासो, विभ्रमादिवियुक्तता // 5 // 66