________________ 288 ] शास्त्रवार्तासमुच्चयस्य [चरमः उपसंहारः चित्रकृत्वमद्भतत्वं, तथानतिविलम्बिता / अनेकजातिवैचित्र्य - मारोपितविशेषता // 1 // 70 सत्त्वप्रधानता वर्ण-पदवाक्यविविक्तता। . अव्युच्छित्तिरखेदित्वं, पञ्चत्रिंशञ्च वाग्गुणाः // 1 // 71 तस्मिन्-तादृशे बुद्धिविषयीभूते / भगवति-षड्विधैश्वर्यशालिनि / देवाधिदेवे-तीर्थङ्करे / भवता-त्वया / भक्तिराग:-सेवाविषयकानुरागः / धीयताम्-धार्य्यताम् / आधीयताम् इतिच्छेदे संस्थाप्यः तामित्यर्थोऽवसेय: / एवञ्च क्रमशः पादत्रयेण पूजा-ज्ञानवचनातिशयाः प्रतिपादिताः / अपायापगमातिशयं विनाऽनुपपनैस्तैराक्षिप्तोऽपायापगमातिशयोऽपि भगवति वेदितव्यो भवतीति / अत्र भगवत्तीर्थकृद्विषयक-कविगतरतिभावाभिव्यञ्जनाद्भवध्वनिकाव्यमिदमवसेयम् / // इति समाप्तोऽयं ग्रन्थः //