________________ 286] शासवार्तासमुषयस्य [घरमः मादाय केवलज्ञानोत्पादनद्वारेण जगतां स्थिति प्रकाशयतीति सर्वमागमवेद्यम् / बोधयन्त:-प्रज्ञापयन्तः, प्रबोधयन्त इति यावत् / यद्यपि स्वयं बुद्धो भगवाँस्तदुपदेशं नापेक्षते तथापि तेषामयमाचारो वर्तते / शिखिजलमरुतः अग्निसलिल प्रमुग्वा देवाः, नवलोकान्तिकदेवा इति यावत् / यदुक्तम्- "सारस्सय१माइच्चारवण्हो३बरुणा य४गद्दतोया य 5 तुडिआ६अव्वाबाहाअग्गिचायचेव रिट्रा य 6 // 1 // तुष्टुवु:-अभिष्टुतवन्तः। सर्वोऽप्ययं प्रथमपादप्रतिपाद्योऽर्थः कल्पसूत्राऽऽगमसम्मतः। तथाच कल्पसूत्रे- पुणरवि लोयंतिएहिं जीयकप्पिएहिं देवेहिं ताहिं इट्राहिं जाव वग्गृहि अणवरयं अभिनंदमाणा य अभिथुव्वमाणा य एवं वयासी // 110 // जय जय नंदा ! जय जय भद्दा ! भद्देते जय जय खत्तियवस्वसहा ! बुज्झाहि भगवं ! लोगनाशा ! सयल जगज्जोवहियं पवतेहि धम्मतित्थं हिअसुहनिस्सेयसकर सव्वलोए सव्वजीवाणं भविस्सइत्ति कट्ट जयजयसई पउंजति // 111 // यत्र-बुद्धिविषयीभूते देवाधिदेवे / प्रतिहतभुवनालोकवन्ध्यत्वहेतुः-भुवनं जगदालोकयन्ति प्रकाशयन्तीति भुवनालोकाः, प्रतिहताः कदाचित् कश्चिद्वाधिताश्च ते भुवनालोकाः प्रतिहतभुवनालोकाः, लौकिकसूर्यचन्द्रादिप्रकाशास्तेषां वन्ध्यत्वम् वैफल्यम् विफलीकरणम्, प्रतिहतभुवनालोकवन्ध्यत्वम्, तत्र हेतु: काररणम्, प्रतिहतभुवनालोकवन्ध्यत्वहेतुः, केवलज्ञानप्रकाशेन चन्द्रसूर्या. दिप्रकाशा वैफल्यमायान्तीति केवलज्ञानस्य भुवनालोकवन्ध्यत्वकारणत्वमवसेयम् / यद्वा अविसर्गान्त "प्रतिहतभुवनालोकवन्ध्यत्वहेतु" इत्येवपाठस्तथा च भुवनालोकवन्ध्यत्वे हेतवः कारणानि, भुवनालोकवन्ध्यत्वहेतवः, प्रतिहताः प्रतिबद्धाः विनाशिता इति यावत् भुवनालोकवन्भ्यत्वहेतवो येन तत्तथेति व्याख्येयम् / ज्ञानम्-केवल