SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ उपसंहारः ] कल्पलतावतारिका [285 (अव) बुद्धम्-स्वयंबुद्धम् / “सयसंबुद्धाणं" इतिशक्रस्त. वोक्तः / यम्-बुद्धिविषयीभूतं तीर्थकृतम् / लोकवृत्त्यै-लोकानां जनानां वृत्ति विका तस्यै तथा / दीक्षा दिवसावर्षावधिकालात्प्रागेव नवलोकान्तिका देवा भगवन्तं लोकवृत्त्य प्रज्ञापयन्ति भगवाँश्च सूर्योदयादारभ्य कल्पवर्तसमयपर्यन्तं प्रतिदिनमष्टलक्षाधिकामेकां सौवर्णकोटिं ददाति, देवाश्च " वृणुत वरं वृणुत वरम्" इत्युद्घोषयन्ति, तदीयामुद्घोषणामाकर्ण्य यो यन्मार्गयति तस्मै तद्ददाति, तच्च सर्व देवा इन्द्रादेशेन पूरयन्ति, एवञ्च भगवान् दीक्षाप्राक्तनवर्षे वार्षिकदानरूपेण 18000000 दीनाराणां 4360 दिवसैर्गुणनात् 3888000000 अशोतिलक्षाधिकाष्टाशीतिकोटिसंवलितमब्जत्रयं दीनाराणां ददाति / तथाचोक्तम्-तिन्नेव य कोडिसया, अहरासीई य हुँति कोडीओ। असीई च सयसहस्सं, एयं संवच्छरे दिन्नं // 1 // " दानप्रभावाच्च दरिद्रा अपि धनाढ्याः सम्पद्यन्ते, लोकानामनायासं जीविका निर्वहतीति समायातम् / कवयोऽपि तदीयं दानमधिकृत्य वर्णयन्ति तत्तद्वार्षिकदानवर्षविरम- दारिद्रय दावानला:, सद्यः सज्जितवाजिराजिवसना-लङ्कारदुर्लक्ष्यभाः / सम्प्राप्ताः स्वगृहेऽर्थिनः सशपथं, प्रत्याययन्तोऽङ्गनाः, स्वामिन् ! षिङ्गजनैर्निरुद्धहसितैः, के यूयमित्यूचिरे // 1 // यद्वा-लोकानां वृत्तिरन्तर्जीवानात्मकधर्मः तस्यै तथा, स च धमस्तीर्थकृत्प्रवर्तिततीर्थादेव प्रभवति, नवलोकान्तिकदेवा आगत्य तीर्थस्थापनानिमित्तं प्रबोधयन्तीति / - यद्वा-लोकानां भुवनानां वृत्तिवर्तन परिवर्तनं स्वरूपप्रकाश. नादि वा लोकवृत्तिस्तस्यै तथा। नवलोकान्तिकैर्दैवैः प्रबोधितो दीक्षा.
SR No.004491
Book TitleKalplatavatarika
Original Sutra AuthorN/A
AuthorAmrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1958
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy