________________ 292] शास्त्रवार्तासमुच्चयस्य . [चरमः ( अव० ) आचार्यहरिभद्रेण-हरिभद्राभिधानेनाचार्येण / अनुष्टुप्छन्दसाम्-अनुष्टुवाख्यच्छन्दोलक्षणलक्षितानाम् / श्लोकानाम्पद्यानाम् / “पये यशसि च श्लोक.” इत्यमरः / सप्तशतानि-सप्तशती। सप्तशतानुष्टुप्छन्दश्लोकपरिमित इत्यर्थः / शास्त्रवार्तासमुच्चयःशास्त्रवार्तासमुच्चयाभिधानग्रन्थः / प्रस्तुत इति शेषः / कृतः-रचितः / (शास्त्रवार्ता.) कृत्वा प्रकरणमेतद्, यदवाप्तं किञ्चिदिह मया कुशलम् / भवविरहबीजमनघं, लभतां भव्यो जनस्तेन // 57 // अन्वयः-एतत् , प्रकरणम् . कृत्वा, मया, इह, किञ्चित् , यत् , कुशलम् , अवाप्तम् , तेन, भव्यः , जनः, अनघम् , भवबिरहबीजम् , लभताम् / ( अव ) एतत् - इदम् / प्रकरणम् - शास्त्रवार्तासमुच्चयाख्य प्रकरण विशेषम् / कृत्वा-रचयित्वा / मया-हरिभद्रसूरिणा / इहलोके / किश्चित्-किमपि / यत्-बुद्धिविषयीभूतम् / कुशलम्-क्षेमम् / अवाप्तम्-प्राप्तम् / तेन-कुशलेन / कृत्वेति शेष: / भव्यः-मोक्षगमनयोग्यतापनः / जनः-लोकः / अनघम्-निष्पापम् / भवविरहबीजम्-संसाराभावनिदानम् / लभताम्-प्राप्नोतु / अत्र श्लोके 'भवविरहे' तिपदं ग्रन्थम्यास्य याकिनीमहत्तरासूनुप्रसिद्धहरिभद्रसूरिकर्तृकत्वं सूचयति, तेनास्यान्यहरिभद्रकर्तृकत्वं निरा. कृतम् / तथाच श्रीराजशेखरसूरिविरचितप्रबन्धकोशे-एकदा भागि. नेयो हस-परमहंसौ पाठयति प्रभुः / निष्पन्नौ पर बौद्धतास्तम्मुखेन