________________ चरमः उपसंहारः ] कल्पलतावतारिका [ 281 एवं समीचीनयुक्तिततिभिर्विमताना विमतीरपास्य तद्द्वारेण सिद्धान्तयन्तः स्वमत ग्रन्थान्ते प्रयोजन-श्लोकसलयाऽऽशीर्वादावश्यकर्तव्यतासूचक श्लोकचतुष्टयं निर्दिशन्ति सूरिवरा:-- (शास्त्रवार्ता.) एता वार्ता उपश्रुत्य, भावयन् बुद्धिमान नरः। इहोपन्यस्तशास्त्राणां, भावार्थमधिगच्छति // 55 // अम्वयः- बुद्धिमान् , नरः. एताः, वार्ताः, उपश्रुत्य, भावयन् , इह, उपन्यस्तशास्त्राणाम् , भावार्थम् , अधिगच्छति / .... (अव०) बुद्धिमान्-प्रेक्षावान् / न तु यः कोऽपीति भावः / नरः-मनुष्य: / एता:-समुपस्थापिता बुद्धिविषयीभूताः / वार्ता:सिद्धान्तप्रवादान् / उपश्रुत्य- श्रावणविषयतामापाद्य , आकर्येति यावत , भावयन्-चिन्तयन् , अनुसन्दधान इति यावत् / इहअस्मिन् प्रन्थे / उपन्यस्तशास्त्राणाम्-समुपस्थापितबौद्धवैशेषिकादिदर्शनानाम् / भावार्थम्-अभिप्रायतत्त्वम् / अधिगच्छति-प्राप्नोति, निश्चितमिति शेषः / (शास्त्रवार्ता.) शतानि सप्तश्लोकाना-मनुष्टुप्छन्दमां कृतः / आचार्यहरिभद्रेण, शास्त्रवार्तासमुच्चयः // 56 // अन्वयः-आचार्यहरिभद्रेण, अनुष्टुप्छन्दसाम् , श्लोकानाम् , सप्त, शतानि, शास्त्रवार्तासमुच्चयः, कृतः /