________________ 280] शास्त्रवार्तासमुच्चयस्य [एकादशः स्तवक्र: संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे / योगचिकित्साविधिरिव, कस्यापि कथञ्चिदुपकारी // .. एवं व्यवस्थितेऽनुमानमपि प्रमाणम्, तथाहि-मनुष्यत्रीजातिमुक्त्युपहितव्यक्तिमती प्रव्रज्याधिकारिजातित्वात् पुरुषजातिवत् इति / न च तासां प्रव्रज्याधिकारस्य पारम्पर्येणैव मोक्षहेतुतया निर्वाहादप्रयोजकत्वम् ? नचैवमरूपायाससाध्ये तद्धेतुदेशविरत्यादावेव प्रवृत्तिः स्यान्नतु बह्वायाससाध्यसर्वविरताविति वाच्यम् देशविरत्यादिभूयोभवघटितपारम्पर्येण मोक्षहेतुत्वेऽपि चारित्रस्यैवाल्पभवघटितपारम्पर्येण मोक्षहेतुत्वात् , तादृशपारम्पर्येण मोक्षार्थितया तत्र प्रवृत्तेर्युक्तत्वात् कथमन्यथा दु:षमाकालवर्तिनो मुमुक्षवस्तत्र प्रवर्तिष्यन्ते ? इति वाच्यम् / तासां चारित्रस्य पारम्पर्येणैव मोक्षहेतुत्वाश्रवणात्, साक्षा. स्कारणस्य चारित्रस्यासति प्रतिबन्धके तद्भव एव मुक्तिप्रापकत्वोपपत्तेः, स्त्रीत्वस्य प्रतिबन्धकत्वे मानाभावात् , अन्यथा तत्र साक्षाचारित्रार्थितयैव प्रवृत्त्यापत्तेरिति, “मनुष्यस्त्री काचिद् निर्वाति, अविकलतत्कारणत्वात् पुरुषवत्" इत्यनुमानमपि प्रमाणम् / तदेवं स्त्रीमुक्तिसिद्धेः सिद्धाः पञ्चदशसिद्धभेदा इति शिवम् / . शब्दानामथ चार्थानां, सम्बन्धोऽस्ति परस्परम् / ___ मुक्तिभाजः स्त्रियः स्युस्तत्, सिद्धमेकादशे स्तवे // 11 // / इति शासनसम्राट्-तपागच्छाधिपति-सर्वतन्त्रस्वतन्त्र-जगद्गुरुबालब ह्मचारिभट्टारकाचार्यमहाराजश्रीविजयनेमिसूरीश्वरमहाराजपट्टालङ्कार। शास्त्रविशारदकविरत्नपीयूषपाणिपूज्यपादाचार्यश्रीविजयामृतसरिवर। सन्दब्धायां महोदधिकल्पशास्त्रवातीसमुच्चय - कल्पलतानुसारिण्यां-! कल्पलतावतारिकायां एकादशः स्तवकः / / கயமையைகலை மையமவமயையனையன்