________________ 278 ] शामावार्तासमुञ्चयस्य . [ एकादशः न च वीणां स्वभावत एव मायाप्रकर्षवत्त्वमुज्जृम्भते, न च तत्प्रकर्षे निष्कषायपरिणामरूपमुज्जीवतीति चेत् न, चरमशरीरिणामपि नारदादीनां मायादिप्रकर्षवत्त्वश्रवणात् / तेषां संज्वलनी माया न चारित्र. विरोधिनीति चेत् संयतीनामपि तादृश्येव सा किं न तथा ? न च सर्वासां मायाप्रकर्षनियमोऽपि,स्वभावसिद्धाया अपि तस्या (मायायाः) भूयसीषु विपरीतपरिणामेन निवृत्तिदर्शनात् / एतेन "त्रियो न चारित्रपरिणामवत्यः पुरुषापेक्षया तीव्रकामवत्त्वात् नपुंसकवत्" इत्यपास्तम् / तीब्रम्यापि कामम्य भूयसीसु तासु श्रुतपरिशीलन साधूपासनादिप्रसूतविपरीतपरिणामेन निवृत्तिदर्शनात् / न च मिथ्यात्वसहायेन महापापेन स्त्रीत्वस्य निवर्तनाद् न स्त्रीशरीरवर्तिन आत्मनश्चारित्रप्राप्तिरिति शङ्कनीयम् , सम्यक्त्वप्रतिपत्त्यैव मिथ्यात्वादीनां क्षयादिसम्भवात् , पास्त्रीशरीरं तदनुवृत्तौ तस्याः सम्यक्त्वादेरप्यपलापप्रसङ्गात् / उक्तश्च “सम्यक्त्वप्रतिपत्तिकाल एवान्त:कोटिस्थितिकानां सर्वकर्मणां भावेन मिथ्यात्वमोहनीयादीनां क्षयादिसम्भवात।" न च कक्षास्तनादिदेशेषु संसजनाद्यशुद्धेः प्राणातिपातबहुलत्वान्न तासां चारित्रमिति वाच्यम् , शुद्धशरीराया अपि भूयम्या दर्शनात, प्राणातिपातपरिणामाभावात् / यदि च स्त्रीणां चारित्रं न स्यात्सदा "साधुः साध्वी श्रावकः श्राविका" इति चतुर्विधसंघव्यवस्थोत्सीदेत् / श्रथाणुव्रतधारिणी श्राविकाऽपि साध्वीतिव्यपदेशं भजत इति न दोष इति चेत् हन्त ! तर्हि केवलसम्यक्त्वधारिण्येव श्राविकाव्यप. देशमासादयेत, एवञ्च श्रावके ध्वपि तथा द्वैविध्यप्रसङ्गेन संघश्य पञ्चविधत्वमापद्येत / अथ वेषधारिणी श्राविका साध्वीति व्यप. दिश्यते श्रावकस्तु तथाभूतो वस्तुतो यतिरेवेति चातुर्विध्यं व्यवतिष्ठते