________________ स्तवकः ] कल्पलतावतारिका [ 277 भ्रान्ताः लिङ्गपदेन वेदोपादानेऽपि प्रागुक्तार्थम्य स्त्रीमुक्तिं विनाऽनुपपत्ते, पूर्व स्त्रीवेदा दक्षयस्य शरीरनितिनियमनियतत्वात् / “स्त्रियो न मुक्तिभाजः" इत्यत्र सर्वासां स्त्रीणां पक्षीकरणेऽभव्यस्त्रीणां मुक्त्यनभ्युपगमात् सिद्धसाधनम् भव्यस्त्रीणामपि पक्षीकरणे भव्यानामपि सर्वासां मुक्त्यनभ्युपगमेन सिद्धसाधनमेव, "भव्वा वि ते अणंता जे सिद्धिसुहं ण पावन्ति” इति वचनप्रामाण्यात् अवाप्तसम्यग्दर्शनानामपि पक्षीकरणे परित्यक्तसम्यग्दर्शनादिभिः, अपरित्यक्तसम्यग्दर्शनानामपि पक्षीकरणेऽप्राप्ताविकलचारित्राभिरतदोषतादवस्थ्यात् / अथ चारित्राभावादेव स्त्रीणां न मुक्ति:, नन्वसावपि ( चारित्राभावोऽपि ) तासां कुत: सिद्धः ? स्त्रीत्वादिति चेत् , नन्वेवं पुरुषत्वात् पुरुषस्यापि तदभावः किन्न सिद्धयेत् ? तुल्ययुक्त्या स्त्रीष्वपि चारित्रस्वीकारस्याऽऽवश्यकत्वात् / अथ पुरुषे सकलसावद्ययोगनिवृत्तिरूपचित्तपरिणतः स्वसंवेदनाध्यक्षसिद्धत्वात् , अन्यैश्वानुमानाद् न तत्सिद्विरिति चेत् , ननु सा ( तादृशचित्तपरिणतिः) स्त्रियां तथैव किं नावसीयते ? अथ तासां भगवता नैर्ग्रन्थ्यस्यानभिधान द् न तत्प्राप्तिः, असदेतत्-तासां तस्य भगवता "णो कप्पदि णिग्गंथस्स णिग्गंथीए वा अभिन्नतालपलंबे पडिगाहित्तए" इत्याद्यागमेन बहुशः प्रतिपादनात् / अयोग्यायाः प्रव्रज्याप्रतिषेधस्य विशेषाभ्यनुज्ञापरत्वाच्च। अथ सलज्जतया तासां चारित्रमूलमचेलत्वं न सम्भवति, अप्रावृतानां तासां तिरश्चीनामिव पुरुषैरनभिभवनीयत्वात् , “नो कप्पइ णिग्गंथीए अचेलाए" इति भगवदागमेनापि निषिद्धमेव नान्यम् , इति न तासां चारित्रसम्भव इति चेन्न / नाग्न्यं हि न चारित्राङ्गम् , लज्जारूपसंयमविघातित्वात् , न च धर्मोपकरणधरणेन परिग्रहः, तस्य मूर्छारूपत्वात् /