________________ 276 ] शास्त्रवार्तासमुच्चयस्य . [एकादशः तीर्थकरा अवाप्तजिननामोदयार्जितसमृद्धय: सन्तः सिद्धास्तीर्थकरसिद्धाः, अतीर्थकरसिद्धाः, सामान्यकेवलिन: सन्त: सिद्धा अतीर्थकरसिद्धाः / स्वयमेव बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाः सन्त: सिद्धाः स्वयंबुद्धसिद्धाः, ते च तीर्थकरातीर्थकरभेदेन द्विविधाः / प्रत्येकं बाह्यं वृषभादिकारणमभिसमीक्ष्य बुद्धाः सन्त: सिद्धाः प्रत्येकबुद्धसिद्धाः / बुद्धैर्गुर्वादिभिर्बोधिताः सन्त: सिद्धा बुद्धबोधितसिद्धाः। स्त्रिया लिङ्ग स्त्रीलिङ्गम् , स्त्रीत्वस्योपलक्षणमित्यर्थः / तच्च त्रिधा वेदः, शरीरनिवृत्तिः, नेपथ्यश्चेति। इह च शरीरनिवृत्त्यैवाधिकारो न वेदनेपथ्याभ्याम् , तयोर्मोक्षानङ्गत्वात् , ततस्तमिल्लिङ्गे वर्तमानाः सन्त: सिद्धाः स्त्रीलिङ्गसिद्धाः, तथा पुंलिङ्गे पुंशरीरनिर्वृत्ति रूपे व्यवस्थिताः सन्त: सिद्धाः पुंल्लिङ्गसिद्धाः। एवं नपुंसकशरीरे व्यवस्थिताः सन्त: सिद्धा नपुंसकलिङ्गसिद्धाः / स्वलिङ्गे रजोहरणादि. रूपे व्यवस्थिताः सन्त: सिद्धाः स्वलिङ्गसिद्धाः / अन्यलिङ्गे परिव्राजकादिसम्बन्धिन्येव व्यवस्थिताः सिद्धा अन्यलिङ्गसिद्धाः / गृहि. लिङ्गे व्यवस्थिताः सिद्धा गृहिलिङ्ग सिद्धा मरुदेव्यादयः / एकस्मिन् समये एकका एव सन्तः सिद्धा एकसिद्धाः। एकस्मिन् समये अनेकैः सह सिद्धा अनेकसिद्धा, इति सम्प्रदायः / अत्र प्रत्यवतिष्ठन्तेऽभिनिवेशपेशलचित्ताः क्षपणका:-"स्त्रीलिङ्गसिद्धाः' इत्यत्र पूर्वं क्षीणस्त्रीवेदाः सन्त: सिद्धाः इत्यमर्थ आश्रयरणीय:, लिङ्गपदेन मोक्षानङ्गस्यापि वेदस्यात्रोपादानात् , अतीर्थकर. सिद्धादाविव मोक्षाङ्गोपाध्युपादाने नियमाभावात् , स्त्रीशरीरावस्थितास्तु न मुक्तिभाज: स्त्रीत्वात् व्यतिरेके पुरुषवत् / अथवा स्त्रियो मोक्षभाजो न भवन्ति विशिष्टपूर्वाध्ययनलब्ध्यभाववत्त्वात् , अभव्यवत्, इति ते