________________ 270 ] ___ शास्त्रवार्तासमुच्चयस्य [ एकादशः कारिणो न विशेष:, तदा तस्यासत्त्वात , असतश्चोपकारकरणायोगादितिभावः / न चोपादानसहकारिभ्यां विशिष्टापरोत्पादः स विशेष इति वाच्यम्, पूर्ववदविशिष्टकार्यजननस्वभावत्वातिरस्कारेणान्योदय. स्यैवासिद्धेः / एवञ्च शब्दार्थयोस्तादात्म्याद्यनभ्युपगमात् तादात्म्यतदुत्पत्तिविकल्पप्रभवा अस्माकं मते नानिष्टापादका भवन्ति / “परमाथै कतानत्वे" इत्यादिनोक्ता अपि दोषा नैवानिष्टोत्पादकाः, कारणभेदेन शब्दभेदात् अतीताजातयोश्च विद्यमानवत् स्वकाले सत्त्वेन तत्र शब्दप्रवृत्तेरविरोधाच्च / दर्शनान्तरभदिनां प्रधानादिपदानां प्रवृत्तिनिमित्तवैकल्ये गवादिपदानां तदापादनस्यायुक्तत्वात् , तथाहि-यस्मादर्थान्तरभूतवस्तुदोषो न कदाचिदर्थान्तरस्य युक्तियुक्तः, बुद्धानां भिक्ष्वादिशबगदिपदवत् , तथाच शबरादिभिक्ष्वादिपदानां जातिभेदादवर्णव्यञ्जकाऽव्यञ्जकलवत् प्रधानगवादिपदानामपि प्रवृत्सिनिमित्त. वैकल्यावैकल्ये नायुक्ते इति भावः / नचैवं प्रधानादिपदजनितविकल्प्यस्याखण्डप्रधानत्वादिविशिष्टविषयकत्वेऽसत्ख्यात्यापत्तिः। विक. ल्पस्यापि कस्यचिदखण्डैकविषयत्वाननुभवात् , निरंशेऽर्थे संशयधीप्रसरायोगात् , प्रकृते यथान्यसमयसङ्केतानुसार शशविषाणादिसङ्केतिततदादिपदार्थवद् वाक्यार्थमयत्वात् पदार्थस्य सत्सद्भावतात्पर्य्यादसद्भूतोद्भावनरूपमृषावादोपपत्तेः। अत एव परसमयाभिधानपराणां चासत्यभाषावर्गणाप्रसूतवाक्यस्थानां प्रकृत्यादिपदानां सद्भावानभिप्रायाद् न मृषात्वम्, अत एव च पाण्डुरपत्रकिसलयादिवृत्तान्तार्थानामुपमावाचकानां स्वार्थबाधेऽपि तात्पर्ये प्रामाण्याद् न तथात्वमिति / न च शब्दभेदसिद्धौ तस्य ( शब्दभेदस्य ) हेतुभेदनियम्यत्वाद् हेतुभेदसिद्धिः, तत्सिद्धौ च शब्दभेदसिद्धिरित्यन्योन्याश्रय इति वाच्यम्,