________________ स्तबक: ) कल्पलतावतारिका [266 वाच्यतास्वभावरूपः, शब्दे चार्थवाचकतारूप: / योगः-सम्बन्धः / अस्ति-वर्तते / तत्त्वत इति शेषः / संवृत्त्या तदस्तित्वस्य परेणाप्यभ्यु. पगमात् / तत्-तस्मात्कारणात् / ततः-बुद्धिविषयीभूतात् शब्दादिति यावत् / तत्प्रतीत्यादि-वाच्यप्रतीति-प्रवृत्ति-प्राप्ति-निवेदनाद्यागोपालाङ्गन प्रसिद्ध युज्यते इति / ____ विकल्प्येऽर्थे दृश्याथै क्याध्यवसायेन शब्दाद् वाच्यप्रतीत्यादि न युज्यते, दृश्यविकल्प्यार्थयोर्भेदात् , तदभेदाध्यवसायायोगात् / न च मुख्यभेदस्य सांवृतभेदधियोऽविरोधित्व मिति वाच्यम् , मुख्यभेदशालित्वे विकल्प्यस्य दृश्यत्वापत्तेः स्वलक्षणवत्, दृश्यविकल्प्यप्रमातृक्षणयोरेकत्वाभावाच, दृश्यविकल्प्योरैक्याप्रसिद्धेश्च / अथ दृश्यविकल्प्याथैकीकरणं नामाबाह्मालम्बनस्य विकल्प्यस्य बाह्यालम्बनत्वेन प्रतीतिर्न तु वस्तुगत्या भिन्नयोस्तयोरेकीकरणमिति चेत् शब्दज्ञानाद्विशिष्टविकल्प्यवासनाबोध:, विशिष्टविकल्पश्च यस्माद् विशिष्टवासनाबोधादेव तस्मादृश्यविकल्प्यावर्थावेकीकृत्येत्येवमभिधी. यतेऽस्माभिः, विकल्प्यवैशिष्टयाद् गवाद्यर्थप्रतीतेर्गवाद्यर्थप्रवृत्तेः, भ्रमात्प्रवृत्तस्यापि स्वलक्षणप्रतिबन्धेन प्राप्तेर्गवादिबोधनाद्यर्थ निवेदनादे. श्वोपपत्तेः, न तु शब्दाद् विशिष्टवासनाबोधासिद्धेः / तथाविधविकल्पजननस्वभावो वासनोत्पाद एव प्रकृतवासनाबोधो वाच्यः, तच्च ( विशिष्टवासनाजन्म ) न कदाचिद् युज्यते, यस्माद् अन्यस्मात् तुल्यकालादेः सहकारिणो विशिष्टीभावोऽन्यस्य ( विशेषस्य ) नैव भवतोति / तुल्यकालात् सहकारिणो न विशेषः, विशेष्यस्य तदानीमनाधेयातिशयत्वात् , विशेषस्य चातिशयत्वात् , तुल्यकालादपि सह