________________ 268 ] शास्त्रवार्तासमुच्चयस्य . [एकादशः भावान्तरात्मको भावो, येन सर्वो व्यवस्थितः / तत्राश्वादिनिवृत्तत्मा, भावः क इति कथ्यताम् // 2 // . . नेष्टो साधारणस्तावद् , विशेषो निर्विकल्पनात् / तथा च शाबलेयादेरसामान्यप्रसङ्गतः // 3 // .. तस्मात् सर्वेषु यद्रूपं, प्रत्येकपरिनिष्ठितम् / .. . गोबुद्धिस्तन्निमित्ता स्याद् , गोत्वादन्यच्च नास्ति यत् // 4 // तदपि प्रत्युक्तम् - बाह्यरूपतयाऽध्यम्ताय बुद्धयाकारम्यैव सवत्र शाबलेयादौ "गौ!:” इति समानरूपतयाऽवभासनात , तत्रैव भ्रान्तप्रतिपत्तृवशेन सामान्यव्यवहारात मुख्यसामान्यसामर्थ्यदर्शनेऽन्तरूपप्लवात् , द्विचन्द्रज्ञानवत् तत्र सामान्यभ्रान्त्युपपत्तेः, बुद्धेरव्यतिरिक्तत्वेनार्थान्तरानुगमाभावात् , परमार्थतोऽसामान्यरूपवत्त्वेन तस्यापोहवाच्यतायां सिद्धसाधनानवकाशात् / अधिकं, कल्पलतायां खण्डन. मण्डनादिकमालोकनीयम् / अथोत्तरपक्ष:- . (शास्त्रवार्ता०) अन्ये त्वभिदधत्येवं, वाच्यवानकलक्षणः / अस्ति शब्दार्थयोर्योगस्तत्प्रतीत्यादि तत् ततः॥९॥ - अन्वयः-- अन्ये. तु, एवम् , अभिदधति, शब्दार्थयोः, वाच्यवाचकलक्षणः, योगः, अस्ति, तत् , ततः, तत्प्रतीत्यादि / (अव०) अन्ये-अपरे, आर्हता इति यावत् / तु-पुनः / एवम्-वक्ष्यमाणप्रकारेण / अभिदधति-निगन्ति / यदुत-शनार्थयो:शब्दश्वार्थश्च शब्दार्थों तयोस्तथा / वाच्यवाचकलक्षण:-अर्थे शब्द