________________ स्तबकः ) कल्पलतावतारिका [271 संवादासंवादनिरूपणादिभ्यः प्रमाणतदाभासयोरिव सत्येतरभेदस्य लोके दर्शनात् / नचैकान्ततुल्ययोः संवादासंवादसम्भव इति विभावनीयम् / अथ स्वातिरिक्तगुणदोषसम्बन्धादेव तेषामेकान्ततुल्यत्वं न भविष्यतीति किं स्वरूपभेदेन ? अन्यथा कालभेदेन भ्रमप्रमाजनकचक्षुरादेरपि स्वरूपभेदः स्यादिति चेत् न सत्येतरादिशब्दानां सर्वथा स्वरूपाभेदे संवादेतराद्यनापत्तेः, कार्य्यभेदे स्वभावभेदस्य प्रयोजकत्वात् , सहकारिभेदस्याप्यजनकस्वभावपरित्यागौपयिकत्वात् , निर्मलानिर्मलचक्षुरादेरपि स्वरूपभेदाभ्युपगमात् इष्यते च सत्येतरादिव्यवहारस्यापि प्रमाणत्वात् स च हेतुभेदमाक्षिपतीति कान्योन्याश्रयः ? ___अथैवमपि शब्दार्थयोः स्वाभाविकसम्बन्ध-सत्येतरादिभेदसाम्राज्ये सङ्केतवैयर्थ्यम् स्वत एव शब्दस्यार्थप्रतिपादनयोग्यतायां सङ्केतादर्शिनोऽपि स्वतोऽर्थप्रतिपत्त्य विरोधादिति चेदत्रोच्यते। इह (शब्दस्थले) सङ्केतप्रतिसन्धानाध्ययव्यतिरेकानुविधानं शब्दार्थसम्बन्धज्ञानावरणक्षयोपशमं विना तारशक्षयोपशमकर्तृत्वेन सफलम् , शाब्दबोधे शक्तिप्रहस्यैव हेतुत्वेऽपि सङ्केतस्य तदभिव्यञ्जकत्वेनोपयोगात् / यत्तु अतिरिक्तशक्त्यभावज्ञानेऽपि शाब्दबोधोदयात् सङ्केतज्ञानमेव शाब्दबोधप्रयोजकम् इति, तत्तु धर्मधर्मिणोर्भेदाभेदवादिनां न दोषावहम् , तत्पदबोध्यत्वप्रकारकेच्छाविषयत्वस्य गौरवव्यभिचाराभ्यामतन्त्र. त्वात् / एतेन "तत्तत्पदबोध्यत्वप्रकारतानिरूपितेश्वरेच्छाविशेष्यत्वं तत्तत्पदार्थमात्रवृत्तितत्तत्पदवाच्यत्वम्" इति नैयायिकादिमतमपास्तम्, लक्ष्यादावतिप्रसक्तत्वात् , ईश्वरमनङ्गीकुर्वतामपि वाच्यत्वव्यवहारात्, लाघवाच्च तत्पदबोध्यरूपस्यार्थधर्मस्यैव तत्त्वात् / नचैवं लक्षणाया उच्छेदापत्तिः, अर्थान्तरबोधार्थमाश्रीयमाणे सङ्केतान्तर एव तद्वयपदे