________________ 266 ] शास्त्रवार्तासमुच्चयस्य . [एकादशः गोत्वाविरूपा जातिर्न प्रतिपाद्या. गोत्वादिजातेर्भेदाऽभेदादिविकल्पेनाघटमानत्वात्, तथाऽश्वादिव्यक्तिविशेषेभ्यो गोव्यक्तीनां स्वभावत एव गोत्वाधारस्वभावलक्षणम् , भिन्नत्वाव्यवस्थितेः, गोत्वस्य व्यापकत्वात् / न च स्वभावभेदे गवादिशब्दात् विशिष्टभेदवद् व्यक्तिप्रतीतेः किं गोत्वादिना कल्पितेन, गोत्वाभावे न गोत्वाधारस्वभावभेदवत्त्वम् , तत एव तदोपपत्तेरिति वाच्यम्, तस्य भेदस्य भ्रान्तत्वेन तथाध्यवसायबलेन कल्पिततद्वत्त्वे बाधकाभावात् , वास्तवस्व. भावभेदे एव दोषसङ्गतेः / . अकल्पितजातिवाच्यत्वपक्षे तु दण्डाभिधानाद् दण्डनीव जातिमति गतिर्न स्यात् , न च प्रथमं जातिरवसीयते ततस्तताँल्लक्ष्यते तेन विना तस्या अयोगादिति लक्षणया तद्वतो गतिरिति वाच्यम् क्रमवत् प्रत्ययादर्शनात् , न च जातिव्यक्त्योः सङ्कीर्णैव प्रतिपत्तिः स्यादिति वाच्यम् जातिव्यक्तिसङ्कीर्णतायां स्वीक्रियमाणायां युष्माकमप्यध्यवसीयमानाभेदविरोधात् , अभ्रान्ततद्वत्त्वायोगात् / . ननु भ्रान्ततद्वत्त्वस्य वाच्यत्वे कथमपोहः शब्दार्थ इति चेत् सत्यम्। द्विविधो ह्यस्माकमपोहः, पर्युदासलक्षणः प्रसज्यप्रतिषेधलक्षणश्च / श्राद्यो द्विविधः , अर्थेऽनुगतैकरूपत्वेनाध्यवसितो बुद्धिप्रतिभासो बुद्ध यात्मा, विजातीयव्यावृत्तस्वलक्षणार्थात्मा च। तत्र यथा हरीतक्यादयो बहवोऽन्तरेणापि सामान्यलक्षणमेकमर्थं ज्वरादिशमनं कार्यमुपजनयन्ति तथा शाबलेयादयोऽप्यर्थाः सत्यऽपि भेदेऽधिकृतकाकारपरामर्शमन्तरेणापि वस्तुभूतं सामान्यम् , तदनुभवबलेन यदुत्पन्नं विकल्पज्ञानन्तत्र यदाकारतयाऽर्थप्रतिबिम्बकं ज्ञानादभिन्नमाभाति तत्रान्यापोह इति व्यपदेशः, अन्यव्यावृत्तवस्तुप्राप्तिहेतुत्वादि