________________ स्तवकः ] कल्पलतावतारिका [ 265 स्यात् , तथा च प्रधाना दपदानामप्रत्यायकत्वं स्यात् न चैतदिष्टम् , न च सखण्डप्रधानत्वादिविशिष्टे शक्तिभ्रमादुपपत्ति: गवादिपदानाभिव प्रधानादिपदानामखण्डधर्मविशिष्ट एव शक्त्यनुभवात् , विनष्टानुत्पन्नयोरर्थयोरसत्त्वेन तत्र प्रवृत्तिनं स्यात् , तथा कस्यचित् प्रतारकादेर्वाचोऽसत्यार्थता नैव भवेत्, अतः शब्दार्थविद्भिः सौगतैः शब्दो बौद्धार्थविषयो मन्यते / एतेन यदुक्तमुद्योतकरेण -"अवाचकत्वे शब्दानां प्रतिज्ञाहेतुव्याघात:" इति तत्प्रत्युक्तम् , नयागोपालप्रतीत: शब्दार्थो निषिध्यते किन्तु तत्र सांवृतत्वमभ्युपगम्य तात्त्विकत्व निषिध्यते इति, तन्निषेधश्च स्वलक्षणस्य व्यवहारकालाननुयायित्वेनाकृतसमयत्वात्तत्र शब्दस्य ।अयमेवाभिप्राय: "न जातिशब्दो भेदानां वाचकः, आनन्त्यात्' इति वदतो दिङ्नागाचार्य्यस्य / तेन यदुक्तमुद्योतकरेण “यदि शब्दं पक्षय सि तदाऽनन्तस्य वस्तुधर्मत्वाद् व्यधि. करणो हेतुः , अथ भेदा एव पक्षी क्रियन्ते तदा नान्वयी न व्यतिरेकी दृष्टान्तोऽस्ति, इत्यहेतुरानन्त्यम्” इति तन्निरस्तम्। न च जातिविशेषणभेदेषु सङ्केत सम्भवादनमदोषः, जातेनिरस्तत्वात् , अनन्तभेदविषयनि:शेषव्यवहारोपलम्भस्य कस्यचिदसम्भवेनादृष्टेषु भेदेषु समयासम्भवाच्च, विकल्पबुद्धया हृतेषु तत्प्रतिपत्त्यभ्युपगमे च विकल्पसमारो पतार्थविषय एव सङ्केतः प्राप्तः / अथ समयक्रियाकाले क्षणान्तरसन्निधानात् कथं न स्वलक्षणे समयकरणसम्भवः ? इति चेत् न, तस्याभोगाविषयीकृतत्वेनाश्वाभोगाविषयीकृते सन्निहिते गवाश्वादावश्वपदस्येव समयस्य दुग्रहत्वात् , सादृश्येनैक्यमध्यवस्य समयग्रहे च तस्यास्वलक्षणत्वेन स्वलक्षणस्य वाच्यत्वासिद्धः ? इत्यमर्थस्य तात्त्वि. कत्वाभावेऽतव्यावृत्तिरूपोऽपोह एव शब्दप्रतिपाद्यः , पारमार्थिकी