________________ 264 ] शास्त्रवार्तासमुच्चयस्य . [एकादशः अन्वयः-युक्तिमार्गकृतश्रमाः, अन्ये, तु, एवम् , अभिदधति, इह, शब्दार्थयोः, वस्तुस्थित्या, सम्बन्धः, न, विद्यते, इति / . .. ___(अव०) युक्तिमार्गकृतश्रमाःयुक्तिमार्गे तर्कपरम्परायां कृतो विहित: श्रम आयासो यैस्ते तथा, अनुभवाद्युत्सृज्य जातियुक्तिमात्रनिष्ठा इत्यर्थः / अन्ये-अपरे, बौद्धा इति यावत् / तु-पुन: / एवम्वक्ष्यमाणप्रकारेण अभिदधति-निगदन्ति / तमेव प्रकारमपरार्द्धमाह इह-अस्मिँल्लोके / शब्दार्थयो:-लोकप्रसिद्धयोर्नामनामवतोः / वस्तुस्थित्या-परमार्थेन / सम्बन्धः-कञ्चन संसर्गः। न-नहि / विद्यतेवर्तते / सम्बन्धान्तरनिषेधात् तादात्म्यतदुत्पत्स्योरयोगाच्चेति / तथाहि-तादाम्यं न शब्दार्थयोः सम्बन्ध:, शब्दार्थयोरेकत्वेन भेदनिबन्धनद्वित्वाभावप्रसङ्गात् , स्वस्वरूपवत् , घटादिशब्दघटायर्थयोः श्रावणचाक्षुषादिबुद्धिभेदात् भेदसिद्धावभेदासिद्धेः, घटपवनादिवत् , करवालानलाद्यभिधाने वदनच्छेददाहादिप्रसङ्गात् , करवालानलादिनिवेशवत् , सङ्केतव्यवस्थानात् नह्यगृहीतसङ्केतः शब्दोऽर्थ प्रत्याययति घटपदशक्तिपरिज्ञानविकलानां पामराणां विपरीतव्युत्प. नानाञ्च घटपदश्रवणमात्रात् घटार्थप्रत्ययप्रसङ्गात् , किन्तु यः शब्दो यत्र गृहीतसङ्केतः स तमेवार्थं प्रत्याययतीति नचेदमर्थतादात्म्ये युज्यते / एवं घटाद्यसन्निधानेऽपि घटादिशब्दोत्पत्त्या व्यतिरेकव्यभिचारात् , देवदत्ताद्यर्थदृष्टौ गोत्रस्खलनादिदशायां यज्ञदत्तादिशब्देनोक्तितो देवदत्तादिशब्दानुत्पत्त्याऽन्वयव्यभिचारात् , घटादौ पटादिशब्दस्य सङ्केत. करणाच्च यद् यतो नोत्पत्तिस्वभावं तस्य तत्र नियोगवैयर्थ्यात् , शब्दोत्पत्तिरपि न शोभते इति / शब्दानां वास्तवार्थत्वेऽभ्युपगम्यमाने दर्शनान्तरभेदिषु प्रधानेश्वरादिष्वर्थेषु प्रवृत्तिनिमित्तविकला शक्तिर्न