________________ स्तवकः ] कल्पलतावतारिका [263 अन्वयः-सुसिद्धविद्याम् , येषाम्, गिरम् , समुपजीव्य, गहने, अपि, अस्मिन् , पथि, सुखेन, प्रवृत्तः, ते, श्रीसिद्धसेनहरिभद्रमुखाः, सुखाय, मयि, कृतप्रसादाः, भवन्तु / (कल्पलतावतारिका) सुसिद्धविद्याम्-सु-सम्यक् सिद्धा निष्पन्ना विद्या दर्शनादिविद्या यतः सा सुसिद्धविद्या तान्तथा / येषाम्-बुद्धिविषयीभूतानाम्, श्रीसिद्धसेनहरिभद्रप्रमुखाणामिति यावत् / गिरम्-वाणीम् / तदीयप्रन्थात्मकवचनमिति यावत् / समुपजीव्य-निर्वाहकीकृत्य / गहनेदुर्गमे / अपि-खलु / अस्मिन्-प्रत्यक्षलक्ष्यमाणशास्त्रवार्ताव्याख्यानात्मके / पथि-मार्गे / सुखेन-अनायासेन / प्रवृत्तः-प्रवृत्तिमान , भभवमिति शेषः / ते-बुद्धिविषयीभूताः / श्रीसिद्धसेनहरिभद्रमुखाःतत्तत्प्रसिद्धाभिधाना सूरीश्वराः / सूरयः-प्राचार्यपदप्रतिष्ठिताः, विद्वांसः। सुखाय-अानन्दाय / मयि-मल्लक्षणे जने / कृतप्रसादाः-प्रसन्नाः। भवन्तु-जायन्ताम् / अत्र श्रीसिद्धसेनहरिभद्रप्रभृतिसूरिवर्यविषयक: कविनिष्ठो रत्याख्यो भावोऽभिव्यज्यत इति भावध्वन्यात्मक काव्यमिदमवसे यम् / ननु सर्वज्ञोपज्ञादागमाद् धर्माधर्मव्यवस्थेति पूर्वोक्तमयुक्तम् शब्दस्य कस्तितार्थविषयत्वात् , शब्दार्थयोर्वास्तवसम्बन्धाभावाच्चेति मनसि कृत्य वार्तान्तरमाह सूरिराज:(शास्त्रवार्ता) अन्ये त्वभिदधत्येवं, युक्तिमार्गकृतश्रमाः / शब्दार्थयोर्न सम्बन्धो, वस्तुस्थित्येह विद्यते // 1 //