________________ 262 ] शास्त्रवार्तासमुच्चयस्य . [एकादशः प्रयोगः, विशेषणविशेषणवाचकतया च सिद्धविद्य इत्यत्रापि पुल्लिङ्गताऽवसेया अथवा सकलजनवशीकृत् इत्येव नाम विशेषणवाचकम् "सिद्धविधः" इति पदमाश्वसेनिविशेषणवाचकमित्यवसेयम् / दुर्नीतिव्याधिदिव्यौषधम्-दुर्नीतिरेव व्याधी रोगस्तत्र दिव्यौषधरूपम्। अधमजनव्यालपारीन्द्रनादः-अधमजना नीचलोका एव व्याला दुष्टगजास्तत्र पारीन्द्रनाद:-सिंहनादरूपम् / “व्यालो दुष्टगजे सर्प श्वापदे नान्यवत् खले" इतिमेदिनी / अज्ञानध्वान्तधारारविकिरणभरःअज्ञानमविद्यैव ध्वान्तमन्धकारोऽज्ञानध्वान्तम् तस्य धारा परम्परा तत्र रविकिरणभर:- सूर्य्यमयूखातिशयरूपम् / ' यस्य-बुद्धिविषयीभूतस्य भवगत: पार्श्वनाथस्य / नाम-अभिधानम् / शश्वत्-पुन: पुन: / विश्वस्य-जगतः, सर्वलोकस्य वा / अर्थसिद्धिम्-प्रयोजन. निष्पत्तिम् / दत्ते-ददाति / सः-बुद्धिविषयीभूत: / आश्वसेनिःअश्वसेनस्यापत्यं पुमानाश्वसेनिः पार्श्वनाथः। जिनेन्द्रः-जिनेश्वरः / भुवि-लोके / विजयते-सर्वोत्कृष्टतया राजते / परम्परितरूपकमलङ्कारः / जिनेन्द्रनामनि दिव्यौषधत्वाद्यारोपे दुर्नीतीत्यादौ व्याधिस्वाद्य रोपस्य साधारणधर्मसम्पादकतया कारणत्वात् / “यत्र कस्यचिदारोप: परारोपणकारणम् / तत् परम्परितम्" इति साहित्यदर्पणे तल्लक्षणात् / (कल्पलता) येषां गिरं समुपजीव्य सुसिद्धविद्यामस्मिन् सुखेन गहनेऽपि पथि प्रवृत्तः। ते सूरयो मयि भवन्तु कृतप्रसादाः, .. श्रीसिद्धसेनहरिभद्रमुखाः सुखाय // 3 //