________________ स्तवकः ] कल्पलतावतारिका [ 261 सदुपदेशगणधरप्राप्त्युभयप्रयोज्यं हर्षम् / अदात्--व्यतरत् / सःतादृशः / जिनवृषभवीरः - अर्हन्छेष्ठो भगवान् वर्द्धमानो महावीरस्वामी। सततम्--अनिशम् / वा-युष्मान - श्रद्धासम्पन्नान्-भक्तजनानिति यावत् / अपायात्-विनाशात् / पायात--रक्ष्यात् / अनुप्रास: शब्दालङ्कारः / स चैकवर्णस्यानेकश आवृत्त्या वृत्त्यनुप्रासास्मकः, छेकानुप्रासश्च / श्रीमच्चरमतीर्थकृद्विषयकः कविनिष्ठो रत्याख्यो भावश्चाभिव्यज्यते इति ध्वनिकाव्य मदम् / (कल्पलता) प्रत्यूहापोहमन्त्रः सकलजनवशीकारकृत्सिद्धविद्यो, दुर्नीतिव्याधिदिव्यौषधमधमजनव्यालपारीन्द्रनादः / अज्ञानध्वान्तधारारविकिरणभरो यस्य नामार्थसिद्धि, दत्ते विश्वस्य शाश्वत् स भुवि विजयतामाश्वसेनिर्जिनेन्द्रः॥२॥ अन्वयः-सकलजनवशीकारकृत्सिद्धविद्यः, प्रत्यूहापोहमन्त्रः, दुतिव्या विदिव्योषधम् , अधमजनव्यालपारोन्द्रनादः, अज्ञानध्वान्तधारारविकिरणभरः, यस्य, नाम, शाश्वत् , विश्वस्य, अर्थसिद्धिम् , दत्ते, सः, आश्वसेनिः, जिनेन्द्रः, भुवि, विजयताम् / (कल्पलतावतारिका) सकलजनवशीकारकृत्सिद्धविद्यः-सकलजनानां निखिललोकानां वशीकारो वशीकरणम् सकलजनवशीकारकृत् तथा सिद्धा निष्पन्ना विद्या ज्ञान यतः स तथा / प्रत्यूहापोहमन्त्रः-विघ्ननिवारणमन्त्ररूपम्, नामविशेषणवाचकत्वेऽपि मन्त्रशब्दस्य नित्यपुल्लिङ्गतया तथा