________________ 260 ] शास्त्रवार्तासमुच्चयस्य [एकादशः * अथैकादशः स्तवकः ॐ तत्रादौ चिकीर्षितसमाप्तिप्रतिबन्धकदुरितोपशमनाय मङ्गलाथ श्लोकत्रयं निर्दिशन्त्युपाध्यायाः(कल्पलता) . अपापायामायानुसृतमतिरभ्येत्य सदनं, क्षमाया निर्मायापहृतमदमायान् गणभृतः / सभायामायातान् य इह जनतायां मुदमदा दपायात्पायाद्वो जिनवृषभवीरः स सततम् // 1 // अवन्यः- आयानुसृतमति:, अपापायाम् , क्षमायाः, सदनम् , अभ्येत्य, सभायाम् / आयातान् , गणभृतः, अपहृतमदमायान् , निर्माय, यः, इह, जनतायाम् , मुदम् , अदात् , सः, जिनवृषभवीरः, सततम् , वः, अपायात् , पायात् / (कल्पलतावतारिका) आयानुसृतमतिः - आयं शिष्यसम्पत्तिलाभमनुसृताऽनुगता मतदुद्धिर्यस्य स तथा / शिष्यसम्पत्तिलाभमनुसन्दधान इत्यर्थः / अपापायाम् -तदभिधानायां नगर्याम् , अधुना “पावापुरी"तिख्यातायाम् / क्षमाया:-तितिक्षायाः। सदनम्-सद्म। अभ्येत्य-गत्वा / समवसरणं कृत्वेत्यर्थः / सभायाम्- गोष्ठयाम् , समवसरणे इति यावत् / आयातान्--समागतान् / गणभृतः-इन्द्रभूत्यादीन् एकादश गणधरान् / अपहृतमदमायान्-दूरीकृतगर्वदम्भान् / निर्माय-विधाय / य:-बुद्धिविषयीभूतः / इह-लोके / जनतायाम्-जनकदम्बके / मुदम्