________________ स्तवकः ] कल्पलतावतारिका [ 256 निरस्य-दूरीकृत्य / तत्त्वतः-यथार्थतः। यत्-बुद्धिवषयीभूतम् / इदम्-प्रत्यक्षविषयतामापन्नम् / उच्यते-निगद्यते / (तत्) हृदिहृदये / भाव्यताम्-विचार्य्यताम् / अघातिनाम्-वेदनीयायुनीमगोत्रात्मकानामघातिवचनवाच्यानाम् / कर्मणाम्-कर्मतया प्रसिद्धानाम् / यथाक्रमम्-क्रमशः / स्थिता-अवस्थिता / परिणतिः-परिणाम:, परिपाक इति यावत् / त्रिलोकीगुरुम्-भुवनत्रयश्रेष्ठम् / कवलभोजिनम्कवलाशिनम् / किम्-कथम् / न-नहि / गमयति-बोधयति, अपि तु बोधयत्येवेति भावः / अघातिकर्मणा कवलाहारभोजित्वेऽपि न तीर्थकृत्त्वहानिरितिभावः / सर्वज्ञः सर्वदा भोजी, साधितो दशमे स्तवे / जैमिनीयास्तथा ताथा-गता गता दिगम्बराः // 6 // / / इति शासनसम्राट-तपागच्छाधिपति-सर्वतन्त्रस्वतन्त्र-जगद्गुरुबालब मचारिभट्टारकाचार्य महाराजश्रीविजयनेमिसूरीश्वरमहाराजपट्टालङ्कारशास्त्रविशारदकविरत्नपीयूषपाणिपूज्यपादाचार्यश्रीविजयामृतसरिवर- / सन्दृब्धायां महोदधिकल्पशास्त्रवार्तासमुच्चय -- कल्पलतानुसारिण्यांकल्पलतावतारिकायां दशमः स्तवकः / / A