________________ 258 ] शास्त्रवार्तासमुच्चयस्य [दशमः ष्टाहारमन्तरेणापि शरीरस्थितिनिबन्धनमिति वाच्यम् तत्सद्भावेऽपि शरीरस्थितिनिमित्तशयनोपवेशनादिवत् प्रकृताऽऽहारस्याप्यविरोधात् / नचोपवेशनादिकमपि शरीरस्थित्यर्थं तत्रासिद्धम् समुद्घातावस्थानन्तरकालं पीठफलकादिप्रत्यर्पणश्रुतेः, तद्ग्रहणमन्तरेण तत्प्रत्यर्पणस्यासम्भवात् , तद्ग्रहणस्य च यथोक्तप्रयोजनमन्तरेणाभावात् , अधिकं स्याद्वादकल्पलतायां दृष्टव्यम् / तेन सिद्धमेतत् कवलाहारित्वेऽपि घातिकर्माकलङ्कितेन भगवता व्यक्तादस्माकमागमाद्धर्माधर्मव्यवस्थेति / अत्रोपाध्यायाः-- (कल्पलता) दिगम्बर ! परस्परं, मतविरोध मत्सरं, निरस्य हृदि भाव्यतां यदिदमुच्यते तत्त्वतः / स्थिता परिणतिर्यथाक्रममघातिनां कर्मणां , न किं कवलभोजिनं गमयति त्रिलोकीगुरुम् // 9 // अन्वयः-दिगम्बर ! परस्परम् , मतविरोधजम् , मत्सरम् , निरस्य, तत्त्वतः , यत् , इदम् , उच्यते, (तत् ) हृदि, भाव्यताम् , अघातिनाम् , कर्मणाम् , यथाक्रमम् , स्थिता, परिणतिः, त्रिलोकीगुरुम् , कवलभोजिनम् , किम् , न , गमयति / (कल्पलतावतारिका) दिगम्बर ! - दिक् दिशैवाम्बरं वस्त्रं यस्य स .दिगम्बरस्तदामन्त्रणे तथा / जात्यभिप्रायेणैकवचनम् / परस्परम्-अन्योन्यम् / मतविरोधजम्-सिद्धान्तविरोधजनितम् / मत्सरम्-भन्यशुभद्वेषम् /