________________ स्तक्कः ] कल्पलतावतारिका [257 यदर्शक इति यावत् शरणं वा / अस्तु-जायताम् / कविगतजिनेश्वरविषयकरत्याख्यभावाभिव्यञ्जनादुत्तमं काव्यमिदम् / ननु "सर्वज्ञेनाभिव्यक्तादागमात् सम्पद्यते धर्माधर्मव्यवस्थेति पूर्वमुक्तम् , परन्तु कवलाहारित्वे त्वस्मदादिवत् सार्वश्यमेव नोपपद्यते, इति कथं श्वेताम्बराणां सर्वज्ञमूला व्यवस्था ? न च च्छद्मस्थे भुजिक्रिया दर्शनात् केवलिनि तद्विजातीये तत्कल्पना युक्ता अन्यथा चतु ानित्वाकेवलित्वसंसारित्वादयोऽपि तत्र स्युः / न च देहित्वमात्र तस्य भुक्तिसम्पादकम् मैथुनसम्पादककर्मसत्त्वेऽपि सुषुप्त्यादौ वृषस्याभावेन मैथुनविरहवत् कैवल्ये हतमोहतया बुभुक्षाभावेन भुक्त्यनुपपत्तेः / एवञ्च तथाभूतशक्त्याऽऽयुष्यकर्मणोः सत्त्वेऽपि न क्षतिः / न च मोहाभावात् शरीरानुरागनिमित्तबुभुक्षाभावेऽपि शरीरं स्थापयितुमिच्छरश्नातीति वाच्यम् अनन्तवीर्यस्य भगवत: शरीरस्थितिमिच्छोः प्रकृताहारमन्तरेणापि तत्स्थापनसामर्थ्याविरोधात् , इति चेदरोच्यते-घातिकर्मक्षयापेक्षयाऽस्मदादिविजातीयत्वेन भगवति चतुझानित्वाद्यनुपपत्तावपि भुक्तिनिमित्तककर्मक्षयापेक्षया विजातीयत्वा. सिद्धेर्न तत्र भुक्त्यनुपपत्तिः / न च भुक्तिसम्पादकं कर्मेच्छां विना तदनिष्पादकम् , अनिच्छतामपि कर्मविपाककृतफलोपनिपातदर्शनात् / न च भुक्तिप्रवृत्ते रागनिमित्तकत्वाद् वीतरागे तदभावः, शरीरतिष्ठापविषयोपवे रानादिप्रवृतेरिव भुक्तिप्रवृत्तेरपि तत्रातयात्वात् , अनन्तवीर्य्यत्वञ्च तत्र विघ्नपरिपन्थि न परमाहारमन्तरेणैव शरीरस्थितिसम्पादकम् , अन्यथाच्छद्मस्थावस्थायां भगवत्यपरिमितबलश्रवणात् कर्मक्षयार्थमनशनाद्यभ्यवहरणमसङ्गत स्यात् / न च तदा क्षायोपशमिक तस्य वीर्यम् , केवल्यवस्थायां तु क्षायिकं तत् इति विशि