________________ शास्त्रवार्तासमुच्चयस्य [दशमः दुायोत्यकुवासनां नयशतै ठुम्पन्ति यस्यागमाः, सर्वज्ञो गतिरामहोदयपदं, सोऽयं कृतार्थोऽस्तु नः // 8 // अन्वयः- यः, प्रातिहार्यत्रिया, विश्वस्य, अपि, दृशोः, मुदम् , वितनुते, यदुरशम् , धर्मास्था. अद्य वि, अशमनसाम् , अवद्यापहा, यस्य, आगमाः, नयशतैः, दुायोत्थकुव सनाम , लुम्पन्ति, कृतार्थः, सः, अयम् , सर्वशः, आमहोदयपदम् , नः, गतिः, अस्तु / (कल्पज्ञतावतारिका) .. य:-बुद्धिविषयीभूतो जिनेश्वरः / प्रातिहार्याश्रिया -प्रतिहार्यलक्ष्म्या अशोकवृक्षाद्यष्टगतहार्यसम्पदेतियावत् / विश्वस्त्र-सर्वम्य / अपि-खलु दृशो:-नयनयोः। मुदम्-हर्षम् वितनुते-विस्तारयति / यदुपज्ञम्-यद यप्राथमिकज्ञानविषयरूपा / धर्मास्था-धर्मरक्षा, धर्मविश्वास इति वा / अद्यापि-घोरतरे कलिकालेऽपि / अज्ञानसाम्स्वल्पबोधवताम्, प्राणिनामिति शेषः / अवद्यापहा-पापविनाशिका / प्रथमतो धर्मरक्षां स एव ज्ञातवान् , अथवा सं एव धर्मरक्षोचितज्ञानवानासीत्ततोऽन्योऽपि धर्मरक्षां विधाय पापरहितो भवतीति भावः। यस्य-बुद्धिविषयीभूतस्य तीर्थकृत: / आगमाः-तत्त्वनिर्णयकशा. खाणि / नयशतैः-नयानां शतैः / दुर्यायोत्यकुवासनाम्-दुर्नयज. नितकुसंस्कारम् / लुम्पन्ति-लोपयन्ति, दूरीकुर्वन्तीति यावत् / कृतार्थ:-सफलमोक्षात्मकप्रयोजन: / सः-बुद्धिविषयीभूत: - अयम्एषः / सर्वज्ञः-तीर्थकृत् , जिनेश्वर इति यावत् / आमहोदयपदम्मोक्षपदप्राप्तिपर्यन्तम् / न:-अस्माकम् / गतिः-उप्रायः, मोक्षोपा.