________________ स्तबकः ] कल्पलतावतारिका [ 255 - तस्यैवावगमं च लुम्पति परे, बाद हते सौगते, . साम्राज्यं जिनशासनस्य जयति, न्यायश्रिया सुन्दरम् // 7 // अन्वयः-- सुपथस्य. सर्वज्ञम् , धनम् , मुष्णाति लुण्टाके, दुर्मये, मीमांसके, वरैः, निशितैः शरैरिव, सत्तः, अस्तौजसि, च, तस्य, एव, अवगमम् , लुम्पति, परे, सौगते, वाढम् , हते, न्यायश्रिया, सुन्दरम् , जिनशासनस्य, साम्राज्यम् , जयति / (कल्पलतावतारिका) सुपथस्य-शोभनमार्गस्य, आहतस्येति यावत् / सर्वज्ञम्-- सर्वज्ञरूपम् / धनम्-सर्वस्वम् / मुष्णति-चोरयति / लुण्टाके-लुएटनशीले / दुर्जये-दु.खेन जेतुं योग्ये / मीमांसके-जैमिनिमुनिशिष्ये / वरैः-समीचीनैः / निशितैः-तीक्ष्णैः / शरैः-बाणैः / इव--यथा / सत्तकैः-व्यभिचारादिशङ्का निवर्तकानुकूलतः / अस्तौजसि-नष्टतेजसि / सतीतिशेष: / च -पुनः / तस्यैव-बुद्धिविषयीभूतस्य खलु, आहतस्य सुपथस्येति यावत् / अवगमम्-ज्ञानम् , सर्वज्ञविषयकनिश्चयमिति यावत् / लुम्पति-लोपयति / परे-अन्यस्मिन् / सौगतेबाद्धे / बाढम्-नितान्तम् / हते-मारिते, पराजिते इति यावत् / न्यायश्रिया-नयसम्पत्त्या। सुन्दरम्--शोभमानम् / जिनशासनस्यअर्हदागमस्य / साम्राज्यम्--शास्त्रचक्रचक्रवर्तित्वम् / जयति--सर्वोत्कघेण वर्तते / अत्र जिनशासनं सर्वजित्वरं दुरभिभवनीयं सर्वथानमस्कार्यमिति च ध्वन्यते / रूपकोपमसंसृष्टिश्लङ्कारः / (कल्पलता) - विश्वस्यापि दृशोर्मुदं वितनुते, यः प्रातिहार्यश्रिया, धर्मास्था यदुपज्ञमज्ञमनसामधाप्यवद्यापहा /