________________ 254 ] शास्त्रवार्तासमुच्चयस्य [दशमः तथाचोक्तमुपाध्यायेन(कल्पलता) 'धर्माधर्मव्यवस्थेयं कृतविश्वपरिग्रहा / यतः प्रवर्तते शश्वत् , तं सर्वज्ञमुपास्महे // 6 // अन्वयः- कृतविश्वपरिग्रहा. इयम् , धर्माधर्मव्यवस्था, यतः, प्रवर्तते, शश्वत्, तम् , सर्वशम्, उपास्महे / (कल्पलतावतारिका) कृतविश्वपरिग्रहा-विश्वस्य जंगतः परिग्रहो विश्वपरिग्रहः, कृतो विश्वपरिग्रहो यया सा कृतविश्वपरिग्रहा, * जगद्वयापिनीत्यर्थः / इयम्-प्रत्यक्ष लक्ष्यमाणा / धर्माधर्मव्यवस्था-धर्माधर्मनियमः / यतः-यस्मात् तीर्थकृत इति यावत् / प्रवर्तते-प्रचलति / शश्वत्भूयः / तम्-बुद्धिविषयीभूतम् / सर्वज्ञम्-तीर्थकृतम् / उपास्महेउपासनाविषयीकुर्मः / अत्र सौगता: -- "सर्वज्ञेन ह्यभिव्यक्तादित्यादिनोक्तोऽर्थः शक्येत ज्ञातुं यदि सोऽथः, अयं सर्वज्ञः, अयं च तदभिव्यक्तार्थ आगम इत्येवं विभक्तस्वभावो गुणविशेष: स्यात् , अयमेव सर्वज्ञ: न चायं सर्वज्ञः "इत्येवमन्यदोषस्य निर्दोषताया अपि वा प्रमाणानां दुर्लभत्वेन दुर्ज्ञानवात्" इति वदन्ति, तन्न समीचीनम् - लोके सिद्धस्य नियमवतोऽपि गुणदोषविज्ञानस्य सामान्यतो दृष्टानुमानरूपप्रज्ञया समुत्पन्नत्वात् / तथाचोपाध्यायाः(कल्पलतावतारिका) सत्तकै निशितैः शरैरिव वर-र्मीमांसके दुर्जये, लुण्टाके सुपथस्य मुष्णति धनं, सर्वज्ञमस्तौजसि।