________________ स्तवकः ] कल्पलतावतारिका [ 253 - ज्ञायते सर्वजः, न हि तद्वाच्यवाचकसाक्षात्कारिव्यतिरेकेण सम्यक्शास्त्रादतीन्द्रियार्थगतिरित्यर्थान तत्सिद्धिरिति, अन्यथाऽक्षीणावरणस्य च्छद्मस्थस्य प्रमातुरतीन्द्रियार्थे * इदमिथमेव" इत्येवं विश्वासो नोपजायते, शक्तितात्पर्य निश्चयाभावात , निश्चितेऽप्यावरणदोषात् संशयाद्युत्पत्तेश्च, ज्ञानावरण प्रकृतिकत्वाज्ञानावरणकर्मण: सर्वज्ञमूलकत्वनिश्चयाच्च तन्निवृत्तिः सुघटा, ‘तमेव सच्च" इत्याद्यागमप्रामाण्यात् वेदमूलकत्वेन तु न तन्नवृत्ति: वेदमूलकत्वेऽव्यभिचारित्वव्याप्यत्वस्य वेदेनावेदनात् अन्यतश्चानाश्वासादिति विशदं स्याद्वादकल्प. लतायां द्रष्टव्यम् / एवं वचनविशेषान्यथानुपपत्तिरूपयाऽर्थापत्त्याऽपि सर्वज्ञसिद्धिर्भावनीयेति संक्षेपः / ततश्चेदमायातम् - (शास्त्रवार्ता) सर्वज्ञेन ह्यभिव्यक्तात्सर्वार्थादागमात् परा / धर्माधर्मव्यवस्थेयं, युज्यते नान्यतः क्वचित्॥४७॥ अन्वयः-हि, सर्वशेन, अभिव्यक्तात् , सर्वार्थात्, आगमात्, परा, इयम् , धर्माधर्मव्यवस्था, युज्यतें, अन्यतः क्वचित् न / . (अव०) हि-निश्चयेन। सर्वज्ञेन-सर्वपदार्थ वषयकज्ञानवता तीर्थकता / अभिव्यक्तात्-प्रकाशितात् / सर्वार्थात् सर्वविषयात्, अथशब्दस्य विषयवाचित्वम् "अर्थो विषयार्थनयोधनकारणवस्तुषु" इति मेदिनोकोशबलादवगन्तव्यम् / परा-मुमुक्षुसत्साधुपरिग्रहा दुत्कृष्टा। इयम्-प्रत्यक्षलक्ष्यमाणा। धर्माधर्मव्यवस्था-धर्माधर्मनिय.. मनम् युज्यते-उपपद्यते। अन्यतः-अपौरुषेयत्वाभिमतादन्यस्मात् / कचित् -कदाचिदपीत्यर्थः / न-नहि / युज्यते इति शेषः / ..