________________ 252 ] शास्त्रवार्तासमुच्चयस्य . [ दशमः अभ्यासे च विपर्यये च विदितं, ज्ञप्तौ समुत्पद्यते वन्यस्मादिति शासन विजयते, जैनं जगजित्वरम् // 5 // अन्वयः- केवलदृशाम् , शप्ती, स्वतः, एव, प्रामाण्यम् , उत्पत्ती, गुणापेक्षणात् . परतः, पुनः, छाद्मस्थ्यभाजाम् . अभ्यासे, च, विपर्याये, च, शप्तो, स्वतः, परतश्च, विदितम् . तु. अन्यस्मात् , समुत्पद्यते, इति, जगजि. स्वरम् , जैनम् , शासनम् . विजयते / (कल्पलतावतारिका) .. केवलदृशाम् -केवलिनां तीर्थकुनाम् / ज्ञप्तौ-ज्ञाने / स्वत एवआत्मनैव / प्रामाण्यम्-प्रमात्वम् / उत्पत्तौ आद्यक्षणसम्बन्धे / च-पुन: / गुणापेक्षणात्-गुणाऽपेक्ष करणात् / परत:-परस्मात् , प्रामाण्यमिति शेषः / छामस्थ्यभाजाम्-छद्मन्थावस्थाविशिष्टानाम् / पुन: / अभ्यासे क्षयोपशमात्मका सदशायाम् / च पुनः / विपर्यये-अनभ्यास दशायाम् / ज्ञप्तौ स्वत: परतोऽपि विदितम्प्रसिद्धम् , प्रामाण्यम् / तु-पुनः / अन्यस्मात्-एतदतिरिक्तात् / समुत्पद्यते - उत्पन्नं भवत इति-अस्माद्धतो: / जगजित्वरम्-जगद्विजयकारकम् / जैनम्-जिनसम्बन्धि / शासनम्-साम्राज्यम् , शास्त्र वा / विजयते-सर्वोत्कृष्टतया वर्तते इत्यर्थः / एवं स्वहृदयगताखिनसन्देहापनयनाद्धेतोः सर्वज्ञग्रहे सति तदनन्तर तथाविधान्योपलब्धौ सत्यां गृहीते सबज्ञे 'अनेन सदृशोऽसौ" इत्युपमानं प्रमाणम् / गोगवयादावपि उभयदर्शनःभावे उपमासम्भ. वात् / एवं वेदाद धर्माधादि परिच्छेदात परमार्थनीत्याऽर्थापत्त्यापि