________________ स्तवकः ] कल्पलतावतारिका [ 251 चेत् , दोषनिवृत्तेः प्रामाण्य प्रति क सामर्थ्यमुपलब्धम् ? लोकवशादुपलब्धमिति चेत् , तदितरत्रापि तुल्यम्। लोकवचसामप्रामाण्ये दोषा एव कारणम् , गुणनिवृत्तेस्त्वसामर्थ्य मिति चेत , प्रामाण्य प्रति गुणेष्वपि तुल्यमेतत् / गुणानां दोषोत्सारणाप्रयुक्तः सन्निधिरिति चेत् , दोषाणामपि गुणोत्सारणप्रयुक्तोऽसावित्यन्तु / अथैवं वेदा. नामपौरुषेयतया गुणदोषयोरुभयोरप्यभावे तद्धेतुकयोः प्रामाण्याप्रा. माण्ययोरभावान्निःस्वभावत्वं स्यादिति चेत् , पामर ! हन्त ! एवं मिथ्यामतिसन्निपातग्रस्तमात्मानमुपालभस्व, यदमीषामकतृकत्वं प्रलपसि, करिष्यामोऽत्र निपुणं चिकित्साम् / अतश्च “यथाक्रमं द्वेषाभावस्व रागाभावस्य चाविनाभावेऽपि यथा प्रवृत्तिनिवृत्तिप्रयत्नयो रागद्वेषयोरेव हेतुत्वं तथा दोषाभावस्य रागाभावस्य चाविनाभावेऽपि प्रामाण्याप्रामाण्ययोर्गुणदोषयोरेव हेतुत्वम्" इति वदन्ति / एवञ्च सर्वज्ञप्रमायां सम्यग्दर्शनादिगुणापेक्षणादुत्पत्तौ परतस्त्वम्, ज्ञप्तौ तु सर्वज्ञज्ञानप्रामाण्यस्य स्वाश्रयेणैव ग्रहणात् स्वतस्त्वमेव / ___ अत्र प्रामाण्यज्ञप्तौ स्वतस्त्वंपरतन्त्वयोर्वा दिनां विप्रतिपत्तिः। तत्र प्रामाण्यं स्वाश्रयेणैव गृह्यते” इति प्राभाकगः / अनुव्यवसायेनेति मुरारिमिश्राः / स्वजन्यज्ञाततालिङ्गकानुमित्येति भाट्टाः। इत्थश्च स्वत. म्त्ववादिनामप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वमभिमतम् / परतस्त्ववादिनां तु नैवम् , अधिकमत्रत्यं विचारजातं कल्पलतायां द्रष्टव्यम् / तत्सिद्धमेतत्(कल्पलता) प्रामाण्यं स्वत एव केवलदृशां, ज्ञप्तौ गुणापेक्षणादुत्पत्तौ परतः, स्वतश्च परतश्छामस्थ्यभाजां पुनः /