________________ 250 ] शास्त्रवार्तासमुच्चयस्य [दशमः - - नुमानात् / यदि पुन: प्रामाण्यं ज्ञानसामान्यहेतुमात्राधीनं भवेत् तदाऽप्रमाऽपि प्रमा स्यात् / न खलु तत्र (अप्रमायाम् ) ज्ञानसामान्यहेतुर्न विद्यते तदनुत्पत्तिप्रसङ्गात् / अथ तत्र ज्ञानहेतुसम्भवेऽप्यतिरिक्तदोषानुप्रवेशादप्रमाण्यमिति चेत् तर्हि दोषाभावमधिकमासाद्यप्रामाण्यमुपजायते नियमेन तदपेक्षणात् / भावहेतुमधिकं नापेक्षते प्रामाण्य मिति चेत् न, विशेषादर्शनाद्यभावस्य प्रत्यक्षेऽनुमाने च विपर्यासादिदोषाभावातिरिक्तस्य नियमगुणस्यापेक्षणात , अन्यथा "शब्दो नित्यः प्रमेयत्वात्" इत्यादौ प्रमानुमि तिप्रसङ्गात् , अन्यत्र तथाऽस्त्वपि शब्दे तु विप्रलिप्सादिदोषाभावे वक्तगुणापेक्षा प्रामाएयस्य नास्तीति चेत् अंवद्यमेतत , वक्तृगुणाभावे तत्राप्रामाण्यस्य वक्तृदोषापेक्षा नास्तीति विपर्ययस्यापि सुवचत्वात् / अप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेको न स्त इति चेत , प्रामाण्यं प्रति गुणानामपि किन्न तौ ? (अन्वयव्यतिरेको)। अननुगतानां गुणानां प्रमासामान्ये न हेतुत्वमिति चेत् अननुगतानां दोषाणामप्रमासामान्येऽपि न हेतुत्वमिति समानम् , ' यावद्विशेषेऽतिरिक्तिहेत्वपेक्षत्वं यद्विशेषे” इत्यादिन्यायोऽपि चोभयत्र तुल्यः न च शङ्खश्वैत्या दप्रमाविशेषे पित्ताभावाद्यनिरिक्तिगुणादर्शनान्न तुल्य इति वाच्यम् / अदशनेऽपि तत्र सम्यगुपयोगादिरूपगुणकल्पनात् , अन्यथा देहात्माभेदभ्रमेऽपि सम्यग्दर्शनरूपगुणाभावातिरिक्तदोषादर्शनात् , मिथ्याज्ञानवासनारूपं दोषकल्पनं न स्यादिति द्रष्टव्यम् , वस्तुतो द्रश्यत एवेन्द्रिये पित्तादिदोषवद् नैर्मल्यादिको गुणोऽपि / न च नैर्मल्यमिन्द्रियम्वरूपमेव, दोषेध्वेवं सुवचत्वात् / इत्थं च “अस्तु पौरुषेयविषयेयं व्यवस्था अपौरुपेये तु दोषनिवृत्त्यैव प्रामाण्यम्" इत्यपहस्तितम् , गुणनिवृत्त्याऽप्रा. माण्यस्यापि सम्भवात्। तस्याप्रामाण्यं प्रति सामर्थ्य नोपलब्धमिति